________________
२४७०
[ एकादशो
ब्रह्मोक्तयाज्ञवल्क्यसंहिता
इति महिपीदान संकल्पः
॥२७॥
यम द्वारे पथेक्षेत्रे कृष्णावैतरणी नदी । तर्त्तुकामः प्रयच्छामि कृष्णवैतरणीं च गाम् ऋणं च सर्वदा नित्यं यदृणं च मया कृतम् । ऋणधेनुं प्रयच्छामि (प्रदास्यामि) प्रीयताम्मे जनार्दन ||२८|| यमेवा चापि सकल्पं वेश्मनो भविता मम ।
तस्य सङ्कल्प सिद्धयर्थं गवां दत्वा द्विजोत्तमः ॥ २६ ॥ वृष युग्मं वृषं वापि दत्वा गत्वेश्वरालयम् । भुक्त्वा भोगान्यनेका निद्विगुणो युग्मदानतः ||३०|| दशधेनु समोऽनड्वानेकश्चैव धुरन्धरः । धर्मस्त्वं वृषरूपेण जगदानन्दकारकः ।।३१।। तस्माद्वषं प्रदास्यामि धर्मः प्रीणातु नित्यशः ।
इति वृषभ सङ्कल्पः
श्रेष्ठाच्छ्र ष्ठतरं लोके भूमिदानं द्विजातिभिः । दत्त्वा तु पुरुषः स्वर्गे पूज्यते त्रिदशोत्तमैः ||३३|| वाञ्छन्तिपितरो नित्यं स्वर्गे बसति नित्यशः । यश्चास्मत्कुलजः कश्चिद्भवत्यवनिदानकृत् ||३४|| नरकस्थामलु (मं) लोका स्वर्गस्था परमं पदम् । धरणी सर्वजीवानां सर्वदानोत्तमोत्तमा ।।३५।। रत्नगर्भाधरा प्रोक्ता काश्यपी शस्यमालिनी । अनेन भूमिदानेन शस्येन परिसंयुता । प्रीयताम्मे सदा नित्यं रुद्रविष्णुप्रजापतिः ||३६||