________________
२४६६
ब्रह्मोक्तयाज्ञवल्क्यसंहिता [दशमोनैवेद्यं सघृतं कुर्याद्ग्रहाणां च विशेषतः। अन्येषां सर्वदेवानां नैवेद्य पायसं स्मृतम् ।।१४६।। पूजयेन्मंत्रसंयुक्त धूपदीपैश्चगुग्गुलैः । यवैश्चैव तथा कुर्यात्थापनं सर्व देवता( नाम् ) ॥१५०।। अर्कः पलाशखदिरापामार्गोऽथपिप्पलः। औदुम्बरः शमीदूर्वाः कुशाश्चसमिधः क्रमात् ।।१५।। अष्टानिकश्चाष्टशतं अष्टविंशतिमेव च । होतव्यामधुसर्पिभ्यां दध्ना क्षीरघृतप्लुताः ॥१५२।। गुडोदनं पायसं च हविष्यक्षीरमिष्टकम् । दध्योदनं हविश्वर्ण मांसं(माष)वित्राण्यनेकधा ॥१५३।। दद्याद्ग्रहा क्रमादेतद्विजेभ्यो भोजनं तथा। होतव्या सूर्यसंयुक्ता रात्रौ नैव च नैव च ॥१५४।। स्वाध्यायं भोजनं होमं महादानांगसम्प्लवम् । एतद्रात्रौ न कुर्वीत ब्रवीत्स्वायंभुवः पुरा ॥१५।। कूर(क)सन(ग्रहे)तथारात्रौ चाण्डालेम्लेच्छदर्शने । होमं दानं तथा श्राद्धं नैमित्तं तत्रवर्जयेत् ॥१५६॥ उपरागे गुरुर्दीक्षे पुत्रे जाते तु सङ्क्रमे । स्नानं दानं तथा होमं रात्रौ कुर्याच्चबुद्धिमान् ॥१५७।। धेनुः शंखस्तथाऽनड्वान्हेमवासो हयः क्रमात् । कृष्णागौरायसंछागं एतावै दक्षिणाः स्मृताः ॥१५८।।