________________
२४६२ ब्रह्मोक्तयाज्ञवल्क्यसंहिता [दशमो
मृत्तिकयास्थाप्यवरुणं वायुंस्थाप्य तु निक्षिपेत्(विन्यसेत)। क्षीरेणस्थापयेत्सोमं कृष्णं चन्दनकाञ्चनम् ॥१०२।। ईशानं धान्यमध्ये तु एवं संस्थाप्य सत्तमाः। त्रातारमग्निं दूतश्च यमायत्वेष नैभृते ॥१०३।। इमम्मे वरुणं चैव वा (?) वदावित् । ईशानोपब्रह्म> प्रतद्विष्णुस्तथैव च ॥१०४॥ मंत्र संस्कारेण (वै) प्रोक्ताः ये च प्रत्यधिदेवताः। ये पार्श्ववर्तिनोदेवा ये वै स्थापनमुत्तमाः ॥१०।। मध्ये स्थाप्य चतुर्वेदान्तद्वच्चैव तु राशयः । तद्वाह्य स्थापयेद्योगा भृक्षाःस्थाप्यास्ततःपरम् ॥१०६।। गायत्रीमेषपर्णी च योगे योगेतवस्तरम् । अश्विनातेजस्यश्चैव मन्त्रन्यासेन पूजयेत् ॥१०७॥ इन्द्रशानयोर्मध्ये लोकपालान्प्रपूजयेत् । वायव्यसोमयोर्मध्येवसवानष्टौ नियोजयेत् ॥१०॥ ध्र वोध्र वश्च सोमश्च आपश्चैवानिलोऽनलः । प्रत्यूषश्च प्रभासश्च वसवोऽठौ प्रकीर्तिताः ॥१०॥ शतधारेणविन्यस्य मन्त्रवत्पूजयेत्ततः। ईशानोत्तरमध्ये तु ऋषीन्सप्तप्रविन्यसेत् ॥११०॥ गौतमोऽथभरद्वाजो विश्वामित्रोऽथकश्यपः । जमदग्निर्वशिष्ठश्च अत्रिश्चैव ततः परम् ॥११॥ सप्तऋषींश्च विन्यस्य सवीर्यान्पूजयेत्सदा । ईशानइन्द्रयोर्मध्ये रुद्रानेकादश न्यसेत् ॥११२।।