________________
२४६०
ब्रह्मोक्तयाज्ञवल्क्यसंहिता
[ दशमो
कृष्णावयथकपिला भीमाभीमभयानका । कपालमालिनी प्रोक्ता दुर्गनामारनी (णी) तथा ||८०|| शनैश्चरकला दिव्या कलाष्ट्रशनिसंयुता । नीलानील प्रिया कुम्भा कृष्णावदनवर्द्धिनी ॥८१॥ अवशाषा (खा) दिनी क्लीबा राहुकेतु कलाः स्मृताः । गौरी सरस्वती लक्ष्मी तथैन्द्री च चतुर्थिका ॥ ८२॥ अन्ये ये मण्डले देवाः कलाश्चपरिविन्यसेत् । ईश्वरो गिरिजास्कन्दः कृष्णमन्द्रमन्त्रकृत् ॥ ८३॥ कालश्च(ञ्च)चित्रगुप्तञ्च (श्च) स्थापयेद्ग्रहदेवताम् । दधिदुग्धशिवंस्थाप्य मृत्तिकास्थाप्यपार्वती ॥८४॥ स्कन्दश्चदुग्धेविन्यस्य हविः स्थाप्यचतुर्मुखम् । इन्द्रञ्च गोमयेन पिण्डेन अन्तकं स्थापयेत्तिलैः ॥ ८५॥ कालच आयसं स्थापय चित्रगुप्त' तिलैर्यवैः । ग्रहदेवाश्च विन्यस्य ब्रह्मबोजे न बीजितः ॥८६॥ मध्ये ब्रह्मसमारोप्य मन्त्रन्यासन्ततः परम् । त्र्यम्बकं यजामहे श्रीश्चते लक्ष्मीस्तथा ॥८७॥
यदक्रन्दविष्णोरराटमाब्रह्मब्रह्ममेव च ।
सजोषा च यमायत्वा कार्षी धानक्तत (१) ॥८८॥ मण्डलेन तु संस्थाप्य मन्त्रन्यासाः प्रकीर्त्तिताः । काञ्चनं वेद्यां विन्यस्य आपोराजस्तथैव च ॥ ८६॥ मृत्तिका पृथिवीन्यस्य कुंकुमं स्वर्णमेकेश्चव (केशव) म् । इन्द्रश्च गोमयं पिण्डं पुलोमामपिगोमयाम् ॥६०॥