________________
ऽध्यायः] विनायकादिशान्तिवर्णनम् २४५६
कल्याणी (१) ग्राम्या वरेण्या कर्षणी तथा। सुषुम्ला (म्णा) वृष्टिधान्या जेष्ठा चैव हिरण्यदा ॥७॥ द्वादशैताः कला दिव्या रविमण्डलसंस्थिता । पूषायशासुमनसा रतिः प्रीतिकरी तथा ॥७॥ धृतिवृद्धिकरा ( सा च ) मरीची अंशुमालिनी। अङ्गिरा शशिनी चैव तथा सम्पूर्णमण्डला ||७२।। तुष्टिश्च परमाख्याता अमृताषोडशीस्मृता । कलाचन्द्रस्यविज्ञयाः शान्ति कुर्वन्तुनित्यशः ॥७३॥ अरुणाचारुणाख्याता लोल लाक्ष्या च रौरवा। घोराघोरप्रिया धात्री भीमा चैव कपर्दिनी ॥४॥ स्थाप्य भौमकला युक्त दशांगं च कलायुतम् । हार्दासौम्या तथा शुभ्रा तारातारसामाथि(समाधि)नी॥७॥ गुणागुणवतीचन्द्रा बुधस्याष्टकलाः स्मृता । पीतापीतप्रिया हंसा सुवना(शोभना)वनमालिनी ॥७६॥ यया रामेश्वरी तारा सरसाजीव संयुता । स्वाहा देवप्रियादेवी तथैन्द्री धरणीस्मृता ॥७७|| कलाः पञ्चदश प्रोक्ता मण्डलां गिरसंस्थिता । शुक्ला सौमनसा चैव पीयूषापयदायिनी ॥७॥ पद्मापद्मावती गौरी कन्याख्या च सरस्वती। चण्डाचण्डी जपी रुद्रा पूर्वप्रीता च भार्गवी ॥७॥ अर्था च वरुणा प्रीता तथान्या कनकास्मृता ।
अष्टादशकलाः प्रोक्ता भृगुमण्डलसंस्थिता ॥८॥ १५४