________________
ऽध्यायः] विनायकादिशान्तिवर्णनम् २४५७
शम्भवायनमः पूर्व श्रीश्चते लक्ष्मीस्तथा । पञ्चनद्यः सरस्वत्यां देवस्र तौ दुर्गास्तथा ॥४८॥ न हि स्पृशं तथामन्त्रैर्मन्त्रन्यासाः प्रकीर्तिताः । सूर्यः सोमोभूमिपुत्रः सोमपुत्रोबृहस्पतिः ॥४६॥ शुक्रः शनैश्चरो राहुः केतुश्चेतिग्रहाःस्मृताः । प्रणवंवीजपूर्वञ्च स्थाप्य देवं दिवाकरम् ॥५०।। कंकुमेन लिखेत्ताम्र वीजितोऽसौ रविर्भवेत् । आकृष्णेनेति मंत्रेण कलाद्वादशभिर्युतम् ॥५।। आदित्यं तत्र संस्थाप्य सर्वसिद्धिप्रदायकम् । सोमं बीजस्थमोंकारं स्थाप्यदेवं निशाकरम् ।।५२।। चन्दनस्फटिकेलिख्य बीजितोशशिपूजकः । इमन्देवेतिमन्त्रेण कलाषोडशभिर्युतम् ॥५३॥ सोमन्तत्रैवविन्यस्य शान्तिकुर्वन्तु नित्यशः । ब्रह्म(बीजस्थमोङ्कार)बीजे स्थाप्यदेवन्तु मङ्गलम् ।।४।। तदनेरुणरक्तांगं भौमबीजं लिखेत्सदा । अग्निति मन्त्रेण कलादशममाद्यतम् ।।५।। तत्रैवांगारकं स्थाप्य दशांगं बीजसंयुतम् । ॐकारं(बीजपूर्वञ्च)बीजश्चतुर्थस्थाप्यसदाबुधः ॥५६।। हार्दिकं च लिखेत्स्वर्गे बीजितो बुधम्पूजयेत् । उबुध्यस्वेति च ऋचा कला अष्टसमाकुलम् ।।७।। बुधन्तत्र समारोप्य सवीर्यफलदायकः । प्रणवौ वायुबीजञ्चन्यसेत्तत्र बृहस्पतिम् ॥५८।।