________________
२४५६ बृहद्योगियाज्ञवल्क्यस्मृतिः [दशमो
लक्षं ब्रह्मकटाहं च क्षितिश्चाकाशमन्तरम् । रत्नगर्भमिति प्रोक्ता समुद्राः सप्तपर्वताः ॥३७।। ततोवन्हि तु संस्थाप्य होमार्थे हव्यवाहनम् । भू शुद्धिः प्रथमं कुर्याद्वननायूरणादपि(१) ॥३८॥ वृष्ट्यम्बलेपनाश्चैव गौभिरक्रमणन्तथा। समूहाभ्युक्षणाप्रोक्ताभूमिः शुध्यति सप्तधा ॥३६॥ ततोवन्हि तु संस्थाप्य कलादशसमन्विताम् । धूम्रा च नील वर्णा च कपिला विस्फुलिङ्गिनी ॥४०॥ ज्वालाचार्चिष्मती चैव कव्य वा हव्यवाहिनी। रौद्रसंहारिणी चैव वैश्वानरकलादश ॥४१॥ कव्यवाहपूर्व विन्यस्य हव्यवाहं पश्चिमेन्यसेत् । ज्वाला च दक्षिणेन्यस्य चञ्चिष्मती उत्तरेतथा ॥४२॥ कला या मूर्जिविन्यस्य दशांगज्वलनस्मृतम् । स्थाप्यवन्हिमयन्तेजोदद्यान्मंत्राहुतीस्तथा ॥४३।। देवतास्तत्र विन्यस्य तथा प्रत्यधिदेवताः । गणपतिञ्चतथाब्रह्माविष्णुशङ्करमेव च ॥४४॥ लक्ष्मी सरस्वती चैव डुग्नवि (दुर्गा च) क्षेत्रपालकः । मोदकैर्गणपतिस्थाप्य ब्रह्माणं स्थापेयद्धरिम् ॥४।। कुंकुमे स्थापयेद्विष्णु पञ्चमंशंकरन्तथा । जाती फलैस्तथादूर्वाश्वेतपुष्पैः सरस्वतीम् ॥४६॥ रक्तपुष्पैस्तथादुर्गा क्षेत्रपालस्तथैव च । गाणपत्यं ब्रह्मयज्ञं ललाटं विष्णुपूर्वकम् ।।४७||