________________
विनायकादिशान्तिवर्णनम्
मेरुरुत्तरतः स्थाध्य यवैर्वा चन्दनेन वा । तण्डुलैर्वापि संस्थाप्य सवीर्या देवतान्यसेत् ||२६|| श्रुत्वायोगीश्वरं वाक्यं पृच्छन्ति मुनयस्तदा । कियत्प्रमाणं पृथिवी दिशश्च विदिशस्तथा ||२७|| कियन्मात्राणि देवानां पूर्वादि दिशिविन्यसेत् । कस्य देवस्य किम्वीजं यथावत्कथयस्व मे ||२८|| हन्त ते कथयिष्यामि प्रमाणं पृथिव्यामुने । दिशांचोपदिशां चैव यथा नौरिव संस्थितः ||२६|| लक्षंद्वादशकं चैव कोटीनां षड्भिरेव च । प्रमाणं पूर्वा विज्ञेयं कथिते तत्त्ववादिभिः ||३०|| लक्षं चैकादशं चैव चतुः कोटिस्तथैव च । आग्न यान्तुमितिः प्रोक्ता प्रमाणश्रूयताम्मुने ||३१|| (?) च नैऋत्यां वः प्रकीर्त्तिताः । मात्राणिगदितापूर्वं यथोक्तं मुनिसत्तमाः ||३२|| लक्षद्वादशसंज्ञभ्च कोटीनां सप्त तथैव च । वारुण्यां दिशि विज्ञेयं प्रमाणं गदितम्पुरा ||३३|| लक्षश्चैकादशप्रोक्ताश्चतुः कोटिस्तथैव च । वायव्यां तु प्रमाणस्यात्पुरातत्र न संशयः ||३४|| अष्टादश च लक्षाणां कोटिश्चैकादशैव तु । उदीच्यां तु मितिः प्रोक्ता ब्रह्मणा परमेष्ठिना ||३५|| द्विषड् लक्षप्रमाणं च पञ्चकोट्यस्तथैव च । ऐशान्यां तु मितिः प्रोक्तागदिता तत्र वै मुने || ३६॥
Soयायः ]
२४५५