________________
तिथिनिर्णयवर्णनम्
पूर्वविद्धव कुर्वीत धनापत्यहरा स्मृता ।
सिनीवाली द्विजातीनां येषामभिपरिग्रहः || ४२ ||
ऽध्यायः ]
"
२४५१
अन्येषामनिहीनानां कुहू च परिकीर्त्तितः । चतुर्दशी चतुर्यामा अमा यत्र न विद्यते ||४३|| आयाति प्रतिपद्यत्रतत्रग्राह्याचतुर्दशी । शाकुन्यै पद्मरोमांगी कुलांगी कुलवर्द्धिनी ||४४ ॥ मौर्णिमा (पूर्णिमा) पूजयिष्यामि सर्वकामफलप्रदा । ऋग्वेदे श्रवणं पूज्यं यजुर्वेदे (तु) षु पौर्णिमा (पू) ||४५ || सामगा हस्तनक्षत्रं अथर्वाअपिपौर्णिमा । सप्तम्या मुदिते सूर्ये दिनान्ते वाष्टमी भवेत् ||४६|| मूलेन षष्ठी संयोगात्पूजनीयाप्रयत्नतः । यदाष्टमीमनुप्राप्य चारतं याति दिवाकरः || ४७|| तत्र दुर्गोत्सवं कुर्यात्पूजार्थेषु विशेषतः । यदाष्टमी न पूज्येत पूज्या तत्र न मिश्रिता ||४८|| दुर्भिक्षं भूतपीडा च आयुस्तेषां प्रहीयते । दशमीवेधे हतो जीवनन्दावेधहुताशनी ॥ ४६ ॥ द्वितीयावेधगोक्रीड़ा सर्वथा परिवर्जयेत् । चन्द्र दृष्टेष्टे वा द्वितीया यत्रदृश्यते ॥५०॥ गोक्रीडां न च कुर्वीतेत्यब्रवीत्स्वायंभुवो मनुः । गवां क्रीडादिने यत्र सायंदृश्येत चन्द्रमा || ५१|| गवां गर्भी(र्भ)विपत्तिःस्यात्पशूनां च क्षयो भवेत् । नन्दा भद्रा जया रिक्ता कुहू च प्रतिपद्यते ॥५२॥