________________
२४५० ब्रह्मोक्तयाज्ञवल्क्यसंहिता [नवमो
तस्याः पुत्रशतं नष्ट' सर्वथा परिवर्जयेत् । दशमी शेष संयुक्ता केवला द्वादशी तथा ॥३२॥ उपौष्यैकादशी मोहाद् ब्रह्महा फलमश्नुते । उदये नवमी यत्र परतो दशमी भवेत् ॥३३॥ एकादशी यत्रपूर्णा नोपोज्या द्वादशीफला । एकादश्यांच पञ्चाशल्लित द्वादश्याद्याहीनताच क्रमेण। तत्रोपोष्यैकादशी पुण्यवृद्धिनिःसन्दिग्धं जल्पितं ब्रह्मणा च ॥ इति एकादशीनिर्णयः । जन्माष्टमी तथाशोकी श्रियष्टम्या महाष्टमी । एताः सुसंमुखा कार्या अष्टम्यन्तुष्ट(विनाशिनी ॥३॥ अर्थिका निशिवेधेन धनपुत्रविनाशिनी । अष्टमी च तृतीया च पाठी वैकादशी तथा ॥३६।। पूर्वविद्धा न कर्त्तव्या शेषा पूर्वातु वा स्मृता । चतुर्दशी चतुर्यामेऽअमा यत्र न विद्यते ॥३७।। अमान्ते प्रतिपदा यत्र तत्र प्राधाचतुर्दशी। षष्ठय कादश्यमावास्या पूर्वविद्धानथाष्टमी ॥३८॥ सप्तमीविद्धा च नो(नोपोष्या)पोज्या तिथिः पञ्चमी । गौरी सौरी तथा हर्वा दुर्गा व्यकामहेश्वरी ॥३९।। पूर्वविद्धां पदाकृत्वा नरोधम निकृन्तति । नागविद्धातुयाषष्ठी दशम्येकादशी तथा ॥४०॥ भूतविद्धा सिनीवाली न तु तत्र व्रतं चरेत् । तृतीयैकादशी षष्ठी अष्टमी च चतुर्दशी ॥४१॥