________________
ऽध्यायः] तिथिनिर्णयवर्णनम्
२४४६ उन्मीलिनीवञ्जलिनी त्रिस्पृशापक्षवर्द्धिनी। एकादशी द्वादशी च रात्रि शेषे त्रयोदशी ॥२१॥ त्रि स्पृशानाम सा प्रोक्ता सर्वपापापहारिणी। आभाकासितपक्षेषु मैत्रःश्रवणरेवती ॥२२॥ संगमे न हि भोक्तव्यं दशद्वादशी (फलं) हरेत् । संयुक्ता द्वादशश्लाति (2) मैत्रः श्रवण रेवती ॥२३॥ आवासेनापि भोक्तव्यं विंशत्त्रिंशद्घटी त्यजेत् । तिथिनक्षत्रसंयोगान्न कुर्यात्पारणं मुने ॥२४॥ तावत्तत्र न भोक्तव्यं यावदक्षान्तिको भवेत् । तिथिक्षयेषु योऽश्नाति स भवेद् ग्रामशूकरः ॥२।। अपत्यानि विनश्यन्ति जपं वा पारणं स्मृतम् । तावत्तत्रन भोक्तव्यं यावन्नक्षत्र संक्षयः ॥२६।। तिथिक्षयेपुयोभुङ्क्त स भवेत्किल्विपी सदा । अष्टौ तानि व्रतनानि आपोमूलफलं पयः ॥२७॥ हविर्ताह्मणकामाय गुरोर्वचनमौषधम् ।। हानि संततिच्छेदं च दौर्भाग्यं चसमाप्नुयात् ॥२८।। महाहानि करा ह्यषा द्वादशीलंघिता नृणाम् । न च दण्ड समायुक्ता दशम्येकादशी दिने ॥२६।। तथावधं विजानीयान्न कर्त्तव्या कदाचन । सुरया विन्दुमात्रेण गांगतोयं यथात्यजेत् ॥३०॥ दशमीवेधसंविद्धा तदा एकादशी त्यजेत् । दशमीशेषसंयुक्ता गांधारी साह्य पोषिता ॥३॥