SearchBrowseAboutContactDonate
Page Preview
Page 639
Loading...
Download File
Download File
Page Text
________________ २४४८ ब्रह्मोक्तयाज्ञवल्क्यसंहिता [नवमो एकादशी परित्यज्य नोपवासफलं लभेत् । यथा बहुमनुष्याणां मध्ये पिण्डं समाश्रयम् ॥१०॥ द्वादशी दशमीतद्वज्जीवमेकादशी व्रतम् । एकादशी दिनं यत्र निराहारं भवेत्सदा ॥११॥ यानि कानीह पापानि अन्नमाश्रित्य तिष्ठति । द्वादश्यामुपवासन्तु ये प्रकुर्वन्ति •ानवाः ॥१२॥ ते विष्णुं नैव जानन्ति वृथा विष्णुपरायणाः। एकादश्या विना मूढयै कृतं द्वादशीव्रतम् ॥१३॥ भुक्त चान्नं त्रयोदश्यां तैः कृतः कोटिगोवधः। द्वादशी तु यदोपोष्या विना एकादशीम्मुने ॥१४॥ पारणं च त्रयोदश्यां हन्ति पुण्यं पुराकृतम् । केवला द्वादशी हन्ति पुण्यं द्वादशवार्षिकम् ॥१।। रविचक्रार्धमात्रोऽपि तत्रोपोष्यं परं दिनम् । घटिका घटिका वृद्धिर्दशम्येकादशी युता ॥१६।। एकार्णवेन यत्प्रोक्ता मार्कण्डेयस्य विष्णुना । वैष्णवं च तथादित्ये प्राजापत्यं तथैव च ॥१७॥ . वार्हस्पत्यञ्च मैत्रञ्च तथैन्द्रो हृष्यसंयुता। दशम्येकादशी शुक्ला तथानक्षत्र संयुता ॥१८॥ ममवल्लभ या चैताः न वाच्यं(?)कस्य चिन्मय । एक द्वित्रि ततः पञ्च षष्ठ सप्त तथाष्टभिः ॥१६॥ दशम्येकादशी दद्याज्जपादौ परिकीर्तिता। जया च विजया चैव जयन्ती पापनाशिनी ॥२०॥
SR No.032670
Book TitleSmruti Sandarbh Part 04
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages720
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy