________________
२४४६ ब्रह्मोक्तयाज्ञवल्क्यसंहिता [अष्टमो
गोष्ठे वा पल्वलेवापि उदकान्ते निधापयेत् । आचार्यः पिवरं(?) बद्धा केशान्ते च तथैव हि ॥३४॥ पुष्येचाश्विनिरेवत्यां मृगेवाप्युत्तरायणम् । हस्तविष्णुधनिष्ठाश्च क्षौरकर्मणि पुनर्वसु ॥३५।। अथकर्णवेधं (धः) वर्षे तृतीये पञ्चमे तथा । पुष्येन्दुरेवतीचित्रा हरिऋक्षे तथैव च ॥३५६।। प्राङ्मुखश्चैव पूर्वाण्हे उपविश्य यथाविधि । तत्रादौ दक्षिणं कर्णमभिमन्त्र्य तु मंत्रवित् ॥३५७|| भद्रं कर्णेभिः संविद्यासक्षाय ततः परम् । मन्त्रवत्कौँसच्छिद्य पूर्व ब्राह्मणभोजनम् ॥३५॥ गर्भाधानं पुसवनं स्यन्दनं च निमित्तकम् । जातकर्म च नाम च सूर्यावेक्षणकन्तथा ॥३५६।। अन्नप्राशन चूडा च कर्णवेधस्तथैव च। ब्रह्मसूत्रोपनयनं व्रत विसर्जन (ग) मतः परम् ॥३६०॥ केशान्तश्च विवाहश्च चतुर्थीकर्म एव च ।
अग्नि संग्रहणश्च व संस्काराणि च षोडश ॥३६॥ इति श्रीब्रह्मप्रणीते याज्ञवल्क्येधर्मशास्त्रे संस्कारप्रकरणम्नाम
अष्टमोऽध्यायः ।