________________
विवाहप्रकरणवर्णनम्
वरो दास्यति पूर्वेण प्रणीयोत्तर वन्हिना । अग्निराज्यन्तरं कुर्यात्स्थापयेच्चोत्तरे दिशि ॥ २६७॥ प्रणीतापश्चिमेन्यस्य आज्यवन्हि तथान्तरे । उत्तरेचाप्य संस्थाप्य आयमुत्पवनन्ततः ॥२६८|| आलिखेत् पवित्रे च प्रोक्षण्योत्प (व्युत्पवनं) वनंविधिः । आज्यावेक्षणं संस्कुर्यादपद्रव्यनिर रासनम् ॥ २६६॥ उपयमनकुशानादाय दक्षिणं कटि विन्यसेत । उत्तिष्ठ समिधंक्षिप्य एपाते अग्रे समित् || २७० || प्रणीताकुशमादाय यद्याब्राह्मण (?) चेततः । अन्वारम्भन्ततः कुर्यादाचार्यः ब्रह्म वाग्यतः || २७१|| प्रोक्षण्योदकसम्प्रोक्ष्य स्रवहोमं समाचरेत् । द्रुहिणेन इदं प्रोक्तं अग्निस्थापनकं विधिः ॥२७२॥ प्राजापत्योत्तरेन्द्राग्नर्दक्षिणेन्द्रीश मिन्द्री (द्र ) य । आग्नेयेऽग्निमुखीं दद्यादीशाने सोमचक्षुषी || २७३|| अग्निं स्थाप्यविधानेन दशाङ्गाग्निकलायुतम् । धूम्राचनीलवर्णा च कपिला विस्फुलिंगिनी || २७४ || ज्वाला हविष्मती चैव कव्यवाहव्यवाहिनी । रौद्री संहारिणी चैव वैश्वानरकला दश 1120411 विवाहे च तथा क्षौरे चतुर्थादीक्षणे शुभे । गृहयोगे शुभे कर्म्मणि दशांगं वन्हि विन्यसेत् ॥२७६॥ कव्यवाट् पूर्व विन्यस्य हव्यवाट् दक्षिणेन्यसेत् । ज्वाला च पश्चिमे न्यस्य अर्चिष्मां उत्तरे तथा ||२७७||
Sध्यायः ]
२४३७