________________
ध्यायः] विवाहप्रकरणवर्णनम् । २४३५
द्वयुनर्विश्रामसंस्थाप्य(?)प्रणीतापात्र दारुजम् । आत्मासनं ततोदद्यात्प्रणीताकरसंस्थिता ॥२४६॥ तत उदकं समादाय गायत्र्या चाभिमंत्रितम् । प्रणीता पूरणं तत्रदर्भराच्छादयेत्ततः ॥२४७।। विश्रामासनं संस्थाप्य प्रणीतालम्भनं ततः । ब्रह्मणोमुखमालोक्य निधायोत्तर एव च ॥२४८।। वाग्यतः परिस्तीर्य्य प्रवलादेशतः कुशः । हव्यवाहनवस्त्रोऽयं त्रिवाचश्च चतुर्दिशम् ॥२४॥ वस्त्रहीनेन यः कुर्याज्जातवेदास्तनूनपात् । विपरीत(?)फलन्तस्य आष्टं तत्रवै ध्रुवम् ॥२५०।। पात्राणासादनं(?)तत्र आदौदर्भत्रयन्तथा। द्विदर्भ प्रोक्षणीपात्रं आज्यस्थाली ततः परम ॥२५१।। चमवाली ततः स्थाप्यसमा पात्रन्तु वर्जयेत् । सव्येनोदक संस्पर्शः प्रणवोच्चारतत्परः ॥२५२।। अग्ने कुशपञ्च उपयमनकुशाः सप्तादेशात्समिधस्त्रिभिः । खादिरेण वः स्थाप्य स आज्यं स्थाप्य विधानतः ॥ तण्डुलावैश्वदेवान्नं पूर्णपात्रन्तु विन्यसेत् । अवमुष्टि भवेत्किञ्चिदष्टौ च पुष्कलः ॥२५३।। पुष्कलानि च चत्वारि पूर्णपात्रं विधीयते । तत्र त्रोन कुशानास्तीक देशोद्धं कुशद्वयम् ॥२५४।। अथार्दोधद्वयं कुर्यास्त्रीणि त्रय कृतोऽच्छिनत् । कुशैः कुशावच्छिन्नन्ति द्व कुर्यात्तु पवित्रकम् ।।२५।।