________________
२४२८ ब्रह्मोक्तयाज्ञवल्क्यसंहिता [अष्टमो
यज्ञस्थः ऋत्विजः कन्यायोऽलङ्कृत्य प्रदास्यति । सदैव तु भवेद्दवो पुनात्युभयतो नरः ॥१७१॥ गृहीत्वा गोद्वयं कन्यां आर्षश्च परिकीर्तितः। विवाहः पुरुषस्तज्जः पुनात्युभयतो दश ॥१७२।। इत्यथिने समभ्यर्च्य प्रयच्छेद्यः सहाग्निकाम् । प्राजापत्यः सविज्ञेयः पुनाति सप्तचोभयोः ।।१७३।। नाथेनन्द्रविणादानाद्विवाहआसुरो गतः।। राक्षसो युद्धहरणात्पैशाचः कन्यका ठूलात् ॥१७४॥ गान्धर्वादि विवाहेषु पुनर्वैवाहिको द्विजः । चत्वारः प्रथमं शस्ता विवाहाः विप्रजातिषु ॥१७।। क्षत्रियस्य द्वयञ्चैव शस्तौ गान्धर्वराक्षसौ। ययोरेवसमंयक्तियो श्चैव समंकुलम् ॥१७६।। गान्धर्वस्तु स विज्ञेयो विवाहः क्षत्रियोमतः। आसुरो गदितस्तत्र विरुद्राणामुभावपि (१) ॥१७७|| पैशाचश्चाष्टमः सर्वै न कर्तव्योऽधमो यतः । पैत्म(तृ)दत्तां पराग्राह्यां परिवर्तनं करोति यः ॥१७८।। तेषान्तु नरके घोरे पितृणां सहितान्तथा। दत्वा (त्ता) येन विवाहेषु आत्मीया च परासुता ॥१७६।। आत्मा विवाहिताये(ते)न भागिनेय(श्चतत्सुतः)भगिनी यः । ज्येष्ठेन ज्येष्ठयोः कायं नृनार्यो पाणिपीडनम् ।।१८०।। तयोरेकान्तरं ज्येष्ठं ज्येष्ठे न च विरुष्यते । हिते गुरौ धने सूर्ये नष्टे शुक्रबृहस्पती ॥१८॥