________________
ब्रह्मोक्तयाज्ञवल्क्यसंहिता [तृतीयोमातुः पितृश्वसुः पुत्रा मातुर्मातुश्वसुः सुताः । मातुर्मातुलपुत्राश्च विज्ञेया मातृवान्धवाः ॥१४६।। यस्मिन्देशेषु ये विप्रा याव (ती) यत्रैव मृत्तिका । तेनैव ते पालनीया न ते दुःखाः कदाचन ॥१५०।। कुलीनस्फीता सुचाख्याताः वृद्धज्ञातिसमुद्भवान् । त्रीणि यस्य प्रलम्बन्ति ललाटमुदरं कटिम् ॥१५।। ___ कुलक्षयिणी ज्ञेया रकर्मणि वर्जयेत् । यथा पुत्री पत्नारस(तथापुत्र) निरीक्षन्ति ततो वरः ।।१५२।। सम्परीक्ष्यो विशेषेण दशदोषविवज्जितः। अधमः किल्विषी कुष्ठी पतितः क्लीब एवच ॥१५३।। तज(अलक्ष्मीक) श्च मायावी रागान्धो मूोऽपि यः। अपस्मारी कुलोच्छन्नः कन्यादानेषु वर्जयेत् ॥१५४॥ कन्यां दातुं पिता योग्यः अभावे मातृका (तरं) तथा । भ्रातरं मृततो दद्याद् गोत्रिणस्तु ततः परम् ॥१५५।। तथा दोषवतीकन्या न योज्या दारकर्मणि । लम्बोदरी लम्बशिरा(र)का तथाचैव कटेवरीम् ।। १५६।। अति लोम्नी च निर्लोम्नीमतिगौरां च पाण्डुराम् । देववृक्षनदीनाम्नी तथा नक्षत्रनामिकाम् । ॥१५७।। न श्मश्रुर्व्य जनमर्ते अगुष्ठाद्य (?) घरेः स्वरा । हास्ये च कूपगंडांगीच(?)दोषाश्च षोडश ॥१५८।। यचा (वाचा) दत्ती (त्ता) मनोदत्ता कृतकौतुकमंगला । उदक्याच तथा पाणिं गृहीती प्रसवान्विती ॥१५६।।