SearchBrowseAboutContactDonate
Page Preview
Page 616
Loading...
Download File
Download File
Page Text
________________ ऽध्यायः] ब्रह्मचारिधर्मवर्णनम् दृढ़वतो (i) वधनस्यात्सर्वेषां मित्रभि । तिस्रो रात्रिव्रतं कुर्यादमांसाशीभवेत्सदा ॥१३८॥ न भवेत्स्वाभृन्मयपायी मद्यपा इति वर्जयेत् । न स्नात्वा नैवपीत्वा तु सूर्यतप्तन वारिणा ॥१३॥ ऋतुस्नाता स्त्रियाः श्चैव सुरापी शूद्र(एव)व च । काकस्य च शुनश्चैव स्पर्शवादं विवर्जयेत् ॥१४०॥ परचिन्ता न(च)कर्त्तव्या आत्मचिन्ता तु नित्यशः। अतीतं नैव शोच्येत न तु चिन्त्यमनागतम् ॥१४॥ वर्तमानेन वर्तेत (तितव्ये) धर्मबुद्धिं समाचरेत् । श्रुति स्मृतिरतो नित्यं दानाध्ययनतत्परः ॥१४२॥ पितृमातृगुरुर्विप्रनम्रीभूतं भवेत्सदा । मिथ्याव्रतं न कर्त्तव्यं मिथ्यादीक्षां विवर्जयेत् ॥१४३॥ समाप्त ब्रह्मचर्ये च वेदेऽधीते तथैव च । उपयेमे ततः कन्यां ब्रा(म)लक्षण संयुताम् ॥१४४।। अतो विवाहयेत्कन्यां पितृमातृसमुद्भवाम् । सुशीलां गुणवतीञ्चैव दक्षां वा मितभाषिणीम् ॥१४॥ पितृस्वसा च भगिनी भागिनेयी दुहितापतिः । एवं मातृषु विज्ञेया बान्धवाः परिकीर्तिताः ॥१४६॥ सप्तमी पितृतोज्ञेया पञ्चमी मातृतः परम् । पितृमातस्वबन्धूनां दारकर्मणि वर्जयेत् ॥१४७॥ पितुः पितृश्वसुः पुत्राः पितृमातृश्वसुः सुताः । पितुर्मातुलपुत्राश्च विज्ञेया मातृबान्धवाः ॥१४॥
SR No.032670
Book TitleSmruti Sandarbh Part 04
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages720
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy