________________
२४२४ ब्रह्मोक्तयाज्ञवल्क्यसंहिता
न धावेदुदपानार्थद्ध, (घ) त कर्मणि वर्जयेत् । परस्त्रीगमनेवय॑मुदयावेक्षणं (तथा) वर्जयेत् ॥१२७॥ वृक्षारोहणवय॑श्च फलप्रचयनन्तथा । सन्धिसर्पऽपवय॑न्तु नग्न स्नानं विवर्जयेत् ॥१२८॥ ऋतुमद्योषितालापं तथा निष्ठुरभाषणम् । अश्लीलवदनं चैव न कुर्वीत कदाचन ॥१२६।। उदयास्तमने मध्ये नावलोकयते रविम् । स्नात्वा भिक्षां प्रगन्तव्यं वाग्यतः स्नानमाचरेत् ॥१३०॥ वर्षत्येव न गन्तव्यं गन्तव्यं मन्त्रवज्जपेत् । अयम्मे वज्रः पाप्मामपहनत् अनेन मंत्रेण ब्रजेत् ॥१३१॥ अपवात्मानं नावेक्ष्येत कन्यादृषी च नो भवेत् । विषु (वे) स्त्रिया न गच्छेतु प्रसूताकुचवर्जिता(?) ॥१३२।। प्रत्युपोषिताश्चैव तथा पिंडं च नो हसेत् (१) । षण्मासानि समतीतानि गर्ने सहितयोषिता ।।१३३।। सा स्त्रीगर्भिणी प्रोक्ता न रमेत कदाचन । परं वन्ध्या न गन्तव्या त्यजेद्वन्ध्या परस्त्रियः ॥१३४॥ ज्ञानेनैव तु वक्तव्यं सकुलं न कुलं तथा । भगालं(?)च कपालञ्च प्रसिद्धौ वाच्यता(म)पि ॥१३५॥ आखण्डलधनुश्चैव न निरीक्षेत कदाचन। सौरभी च परस्मै च चोषमाना न वाच्यताम् ।।१३६।। तिष्ठन्मनो न कुर्वीत तथा मूत्रपुरीषयोः । स्वयं शीर्णेन काष्ठेन गुदद्वारं प्रमृज्यताम् ॥१३७।।