________________
२४२२
ब्रह्मोक्तयाज्ञवल्क्यसंहिता [अष्टमोसम्पूर्णे व्रतचर्य च ह्यधीते च तथैव च। गुरुणा चा(भ्य) नुज्ञातः स्नानं कुर्यात्ततः परम् ।।१८७|| गुरोः पादोपसंगृह्य कुशास्तरण संस्थितः । वह्नश्चोत्तरतः कुशानास्तीर्य ब्रह्मचारीमुपवेशयेत् ।।१०८।। अष्टानामुदकुम्भानां पुरतः (स्थापन) स्थापयेत्रमात् । येष्वन्नरसमग्निश्च(?) आदायाभिमन्त्रयेत् ॥१०६।। ततोऽभिषेचनंकुर्यान्मन्त्रविच्च पृथक् पृथक् । योरेवनेन मंत्रेण आपोहिष्ठान्तथैव च ॥११०॥ यो वः शिवतमोरसस्तस्मा अरंगमामवः।। एकीकृत्य परिभि (त) स्तूष्णीं येअश्वन्तभिमंत्रयेत् ॥११॥ ततोऽभिषेचनं कुर्यादभिषिच्य पुनस्त्रिभिः। . तूष्णीमभिषिच्य (च्याथ) नमस्कुर्याद्गुरोरपि ।।११२॥ उदुत्तमेतिमन्त्रेण उन्मुच्येन्मेखलां तदा।। निधायदण्डमग्रे तु वासोऽन्यत्परिधापयेत् ॥११३।। आदित्यमुपतिष्ठेत्तु उद्यन्नाजश्च (१) मंत्रवत् । उत्थाय च पुनः स्नात्वालेपन्नासिकयो स्तथा ॥११४।। मुखेचापगृहीते (तु) प्राणापानौ च तप्पयेत् । चक्षुर्भे तय॑यञ्चैव श्रोतमेतर्ययन्तथा ॥११।। पितरः शुन्धध्वं कुर्यात्पाण्योरवनेजनम् । स्मत(स्मात सूत्रं ततोदद्यात द्वितीयं परिधापयेत् ॥११६।। दक्षिणाभिषिन्यश्चैव (?) तत्सुचक्षाहमेवच । अहतं वासा धौतं वा मंत्रवत्परिधापयेत् ॥११५||