________________
२४२० ___ ब्रह्मोक्तयाज्ञवल्क्यसंहिता [अष्टमो
ब्रह्मचारी स्त्रियं गत्वाऽवकीर्णी भवेत्तु सः। गई में पशुमालभ्ययजेश्चैव चतुष्पथे ॥८॥ अग्निं स्थाप्य विधानेन नैऋत्यां देवतां यजेत् । का(ला)य कामकाय(येभ्यः)श्च निऋतेभ्यस्तथैव च ॥८६॥ रक्षोभ्यो देवताभ्यश्च स्वाहान्ते जुहुयात्तदा । गुर्वाचार्यद्विजांश्चैव परिधाप्य यथाविधि ॥८॥ पात्राय संसमादायभक्ष्यं सप्तगृहं चरेत् । तेभ्यो लब्धेषु भैक्ष्येषु बर्तयत्येककालिकम् ॥४८॥ उपस्पृश्यत्रिषवणामब्देन स विशुद्धति । गंगायां च ततो गत्वा गायत्री चायुतं जपेत् ॥८६॥ ब्रह्मचारी ततः शुद्धौ वेदपाठी भवेत्पुनः । यावद् ग्रहणं वेदस्यतावद्ब्रह्मचयं (?) चरेत् ॥६॥ गुरुशुश्रूषणे नित्यं गुरुवतपरायणम् । गुरुभक्तिसमायुक्त गुरुवाक्यमनुस्मरन् ॥६॥ व्रतत्रयसमायुक्त स्नातकत्वं भवेत्स्फुटम् । विद्या व्रतो व्रतो विद्या स्नातकास्त्रयः कीर्तिताः ॥२॥ असमाप्य (A) वेदो यस्य समाप्य तु ब्रतं तथा । व्रतस्नातकः कथ्यन्ते (उच्यते)व्रतार्थी सोऽपि+उच्यते ॥६३ असमाप्त (प्य) व्रतं यस्य समाप्य (त) वेदपाठनम् । विद्यास्नातकः सोज्ञेयो विद्यार्थी प्रोच्यते बुधैः ॥१४॥ व्रतं वेदञ्चोभौ समाप्य उभयोः स्नातक उच्यते । आषोडशावाविंशाच्चतुर्विशाच्च वत्सरात् ॥६॥