________________
ऽध्यायः
ब्रह्मचारिधर्मवर्णनम् स्नानं मन्त्र तथा संध्यां कुर्यात्पूर्ववदाचरेत् । जपन्नासीत सावित्री प्रत्यङातारकोदयात् ॥५६॥ सन्ध्यांप्राक्प्रातरेवं हि तिष्ठन्नासूर्यदर्शनात् । अग्नि(कार्य) ततः कुर्यात्सन्थ्ययोरुभयो रपि ॥५॥ ततोऽभिवादयेत्वृद्धानसावहमिति ब्रुवन् । गुरुञ्चैवोपासीत स्वाध्यायार्थ समाहितः ॥८॥ आहूतश्चाप्यधीयीत लब्धं वाऽस्मै निवेदयेत् । हितं चास्य चरेन्नित्यं मनोवाकायकर्मभिः ॥५६। कृतज्ञोऽद्रोहि मेधावी शुचिः कल्याणसूचकाः । अथवा धर्मतः साधुः शक्तः प्रज्ञानवित्तदा ॥६॥ दण्डाजिनोपवीतानि मेखलां चैव धारयेत् । ब्रा(द्विजातिषु) पु चरेत्भक्ष्यमनिंद्य वात्मवृत्तये ॥६॥ कृताग्निकार्यों भुञ्जीत वाग्यतो गुर्वनुज्ञया । आपोशान क्रियापूर्व सकृत्पात्रमहुत्सम(विशोधयेत् )॥६२ ब्रह्मचर्ये स्थितो नैकमन्नमद्यादनापदि । ब्राह्मणः काममश्नीयाच्छ्राद्ध व्रतमपीड़यन् ॥६३॥ मधुमांसजनोच्छिष्टमु(भुक्तस्त्रीप्राणहिंसनम् । भास्करालोकनाश्लीलपरिवादादि वर्जयेत् ॥६४॥ स गुरुयः क्रियां कृत्वा वेदमस्मै प्रयच्छति । उपनीय वदेव दमाचार्यः स उदाहृतः ॥६॥ चत्वारिंशाष्टमधिकं पठेद्वंदं समाहितः। यावद् वा ग्रहणं कुर्याद् ब्रह्मचर्य समाचरेत् ॥६६॥