________________
अथाष्टमोऽध्यायः
तत्रादौ ब्रह्मचारिधर्मवर्णनम् अतः परं प्रवक्ष्यामि लोकानांधर्मामुत्तमम् । ब्राह्मणाद्यास्तुवर्णानां यथावदनुपूर्वशः ।। १॥ निषेकादिश्मशानान्तास्तेषां वै मन्त्रतः क्रियाः । आरामिकोनापितश्च दारुहःकांसघातकः ॥ २ ॥ लौहकः कुम्भकारश्च षड्प्रकृत्या च उत्तमाः। सूतकश्चक्रिणस्तथाध्वजहोच्छिष्ठभोजी च खङ्गकृत्या
धमाधमाः(१) ॥३॥ गर्भाधानमृतौ(?) पुंसवनस्यन्दनात्पुरा । षष्ठेऽष्टमे वा सीमन्तो मास्यतेजाः (१) कर्म च ॥४॥ अहन्येकादशेनाम चतुर्थे मासि निष्क्रमः । षष्ठेऽन्नप्राशनंमासि चूडां कुर्याद्यथाकुलम् ॥ ५॥ एवमेनः शमं याति बीजगत्(?)समुद्भवम् । तूष्णीमेताः क्रियाः स्त्रीणां विवाहस्तुसमन्त्रकः॥ ६ ॥ गर्भाष्टमेऽष्टमेचाब्दे ब्राह्मणस्योपनायनम् । राज्ञामेकादशेवर्षे विशामेकेयथाकुलम् ॥ ७॥ ब्रह्मणाकथिता(नि) पूर्व संस्काराणि निबोधत । ब्रह्मचर्यसवामस्य कार्य विप्रस्यपञ्चमे ॥८॥ राज्ञोबलार्थिनः षष्ठे वैश्यस्येहार्थिनोऽष्टमे । सर्वेषां भोजयेत्तं च मध्यान्ह(हार्कीगत(?)विधिः ॥६॥ १५१