________________
२४०८ ब्रह्मोक्तयाज्ञवल्क्यसंहिता [सप्तमो
गृहे प्रच्छन्नउ पन्नो गूढजस्तु सुतः स्मृतः । स्वज्ञातिजातो यस्यक्तः सनालः सगरस्तथा ॥३३॥ उत्सृष्टा गृह्यते यद्यत्स्व सोपविद्धो भवेत्सुतः । दायादाः सर्व धर्मषु तथा सन्तान कारकः ॥३३॥ यज्ञे कर्मणि दाने च षड्यथा परिकीर्तिताः । कानीनस्य सहोजश्च क्रीतः पौनर्भवस्तथा ॥३४॥ स्वयंदत्तापविद्धश्च बान्धवाः षट् प्रकीर्तिताः । कानीनः कन्यकाजातो मातामह सुतो मतः ॥३।। अथ स्व ज्ञातिजोवापि गृहिण्या स सहोज.(१)। पितृ मातृश्च (मातृभ्यां च विक्रीतो दासः क्रीतस्तूच्यते ॥ अक्षतायां क्षतायांच पुनर्भूतः पुनर्भवः । स्वयंदत्तापविद्धश्च पूर्वमेव प्रकीर्तिताः ॥३७॥ अश्राद्ध या अपाङ्क्त या दायादःपुत्र उच्यते । अन्तेवासिनि चाण्डाल गरदे पक्तिंदूषके ॥३८॥ गृहे सूतके ग्रन्थभेदी देवे पित्र्ये च (न) योजयेत् । आश्रमादाश्रमं गच्छेच्चतुर्थे वाश्रमे वसेत् ॥३॥ निवृत्तः सर्वकार्येषु अन्तर्वासो स उच्यते । चण्ड (ण्डाल) स्तुन हितः क्रोधे अदम्रो दभ्रवारणे ॥४०॥ यस्य विप्रस्य(?)तन्माद चाण्डालत्वं विनिर्दिशेत् । गरद इत्युच्यते वेदम्वाधीत्याध्यापयेत्पुनः ॥४१॥ स कल्पं सरहस्यं च विप्रौऽसौ गारदः स्मृतः। श्रतिस्मृतिरतोनित्यं प्रतिग्रहपराङ्मुखः ॥४॥