________________
२४०६ ब्रह्मोक्तयाज्ञवल्क्यसंहिता [सप्तमो
सा मृतापि गतैकत्वं सर्ववणे ध्वयं विधिः।। स्वेनभा समं श्राद्धं मात(१,मुक्त सदैव हि ॥१०॥ पितामह्यपि स्वेनैव स्वेनैव प्रपितामही । श्वश्रू जीवति भर्तारं स्नुषा चान्तहितं यदि ॥११॥ अर्ध पिबति भर्तारं पिण्डं विसृज्य मेलयेत् । यस्यजीवे पितुर्मात भ्राता भार्यापि जीवति ॥१२॥ सपिण्डीकरणं तस्य पितामहपितृत्रयम् । सर्वासामेवपत्नीनामेकाचेत्पुत्रिणी भवेत् ॥१३॥ तेन पुत्रेण सर्वास्ता ग्राह्याः पुत्रवती ह्यजः (प्राह)। पिताविश्रान्तिमापन्नो यस्यजीवेपितामहः ॥१४॥ वृद्ध प्रपितामहः सार्द्ध कुर्यात्प्रतादिकी क्रियाः। वृद्धश्चैवतु यत्पात्रंतरिमश्च त्रपितामहम् ॥१॥ तत्सुतः सिंचयेत्पात्रंतत्सुतः सिंचयेत्पुनः। वृद्धप्रपितामहं पिप्डंतत्रिधा कारयेवुधः ॥१६॥ प्रकर्षणगते प्रेते नापिता प्रेत उच्यते । पितुः पितामहे जीवे (वति) पुत्रश्चेन्म्रियतेयदि ॥१७॥ सपिण्डी करणं तस्यवसुरुद्रादित्यान्वै पितृन् । सपिण्डी करणा दूर्ध्व यावदन्दत्रयं भवेत् ॥१८॥ बहिः प्राङ्ग प्रकुर्वीत न कुर्याद्भरि भोजनम् । तीर्थ स्नानं महादानं यवान्यपितृतर्पणम् ॥१॥ अब्दमेकं न कुर्वीत महागुरु निपातने। . यथाज्योतिर्गुणान्सर्वान्प्रच्छादयति भास्करः ॥२०॥