________________
२४०४ ब्रह्मोक्तयाज्ञवल्क्यसंहिता [षष्ठो
माघेपञ्चदशी कृष्णा अश्विन्यां च त्रयोदशी। हुतं दत्तं तथा श्राद्ध युगादिष्वक्षयम्भवेत् ॥२१॥ आश्विने नवमी शुक्ला द्वादशी कार्तिकस्य च। . तृतीया चैत्रमासस्य तथाभाद्रपदस्य च ॥२२॥ फाल्गुनस्यत्वमावास्या पौषस्यैकादशीसिता । आषाढस्यापिदशमी माघमासस्य सप्तमी ॥२३॥ श्रावणस्याष्टमीकृष्णा तथा पाढ़ी च पूर्णिमा । कार्तिकी फाल्गुनीचैत्री ज्येष्टीपञ्चदशी तथा ॥२४॥ मन्वन्तरादिपु(दयश्चैता) सर्वदत्तस्यादक्षयकारकम् । पिण्डायत्र न पूज्यन्ते तत्र चत्वारिवर्जयेत् । अर्घ्यमावाहनं चैव विकरश्चावनेजनम् ॥२॥ इति श्री ब्रह्मोक्त याज्ञवल्क्ये यजुषानिरनिकेवृद्धिः
प्रकरणंनाम षष्ठोऽध्यायः।