________________
यः] श्राद्धवर्णनम्
२४०३ श्राद्ध यज्ञ विवाहे च पत्नी दक्षिणतः सदा। पार्वणेषु सपिण्डेषु वृद्धावन्वष्टकासु च ॥११॥ क्षयाहे पर्वणि पूव्वं विश्वेदेवान्प्रपूजयेत् । मन्वादिश्चयुगादिश्च तथाकाम्येषुपार्वणे ॥१२॥ विश्वेदेवा अपूज्याश्चेद्यत्करोति नतत्कृतम् । याज्ञवल्क्यादिदं श्रुत्वा ऋपयः शंसितव्रताः ॥१३॥ ते पृच्छन्तिमहात्मानं मिथिलार तपोधनम् । कस्मिन्श्राद्धषु के पूज्या विश्वेदेवामहाबलाः ॥१४॥ ये यत्र विहिताः श्राद्ध कथयस्व महामुने । तपः स्वाध्यायनिरतो प्रहटो वाक्यमब्रवीत् ॥१४॥ ऋतुर्दक्षो वसुः सत्यः कामः कालोधृतिः रुचिः। पुरूरवोमाद्रवसौ नाकश्चैव तथापरः ॥१५॥ द्वादशश्चाग्नि सर्वश्च सर्वव्याणनिगद्यते । एवं द्वादश विख्याता विश्वेदेवास्तुधर्मजाः ॥१६॥ पर्वकाले ऋतुर्दक्षोश्चमुः सत्यौ च नान्दिके । कामः कालो नवश्राद्ध काम्ये च धृतिलोचनौ ॥१७॥ पुरुरवोमाद्रवसौ(पुरुखामाडवश्चैव)क्षयेऽहनि तु पावणे । सपिण्डीकरण श्राद्ध एको नाकः प्रकीर्तिताः ॥१८॥ पितृन्यज्ञतथान्येपुत्रिदशेविष्णुरूपिणः। विश्वारूपास्तथाख्याताधर्मजा धर्मनन्दनः ॥१६॥ श्राद्धकालेषु पूज्यन्ते ये यथा परिकीर्तिताः । वैशाखेतृतीयाशुषलेसिते नवमी कार्तिके ॥२०॥