________________
अथ षष्ठोऽध्यायः श्राद्धवर्णनम्
अथातः सम्प्रवक्ष्यामि मातृणां पूजनं पृथक् । पिता सर्वत्रपूत्रे सपत्नीकामभीष्टतः ॥ १ ॥ वृद्ध चादौ गयावाते (तीर्थे) मध्ये अन्वष्टकासु च । पृथक् श्राद्धं च नारीणामन्यत्र पतिनासह ॥ २ ॥ वृद्ध े श्राद्धं त्रयं कुर्यात्तत्रादौ मातृकंस्मृतम् । द्वितीयं पैतुकं ज्ञेयं तृतीयं मातामहं सदा ॥ ३ ॥ पाकं वा तु वहिःशालां सोदनं वरदं दधि । नान्दीमुखेषु कर्त्तव्यमामश्राद्धं सदामुने ॥ ४ ॥ दधिवदराक्षतमिश्रं स्यात्पिण्डनिव्वपनं वुधैः । यवश्वऋजवो दर्भास्तिलार्थे च यवाः स्मृताः ॥ ६ ॥ सम्पन्नमिति पृच्छार्थो नित्यकर्मपूर्वकम् । वृद्धौ विवाहे यज्ञ े च मातृणां कुलपूजने ॥ ७ ॥ नव दैवतकं श्राद्धऽब्रवीत्स्वायम्भुवः परम् । मातृश्राद्ध तु पूर्वं स्यात्पितृणां तदनन्तरम् ॥ ८ ॥ ततो मातामहानां च वृद्धिश्राद्धत्रयं स्मृतम् । गयायां पुष्करे चैव तथा अन्वष्टकासु च ॥ ६॥ पितु मुख्ये न कर्त्तव्यं पार्वणं तु चतुष्टयम् । जीवे भर्त्तरि वामे च मृते भर्त्तरि दक्षिणे ||१०|