________________
२४००
ब्रह्मोक्तयाज्ञवल्क्यसंहिता [पञ्चमोश्राद्धं कुर्वीत यत्नेन पिण्डनिवपनं विना । मद्यायुगादौ(?) भरण्यां यत्नेन परि वर्जयेत् ॥१०॥ पिण्ड श्राद्ध नं कुर्वीत यदिच्छेत्स्त जीवितम् । याम्यं वा पैतृकं वापि पितृपक्षे विशेषतः ॥११॥ तत्र सङ्कल्पना कुर्यापितॄणां पुष्टिदः सदा । मन्वादिश्च युगादिश्च मघा च भरणी तथा ॥१२॥ श्राद्धं तत्र प्रकुर्वीत पिण्डनिवपनं विना । यद्ददाति गयास्थस्य सर्वकामन्त्यमश्नुते ॥१३॥ तथा मघाभरण्योश्च त्रयोदश्यां विशेषतः । प्रौष्ठपदस्य द्वादश्यां पितृभ्योऽर्पयतेयदि ॥१४॥ तत्र सङ्कल्पना श्राद्ध पिण्डनिर्वापरक्षणम् । यदा सङ्कल्पं कुरुते द्वादश्यां च मघायुताम् ॥१२॥ अहं सङ्कल्प सन्तुष्टव(?) पितामहः । पितृपक्षे त्रयोदश्यां पिण्ड श्राद्धं न कारयेत्॥१६॥ कुर्वन्वै कल्पना साद्धं मघासह मघां विना। कुहूपूर्णेतुपञ्चम्यां यः श्राद्धं कुरुते नरः ॥१७॥ कामिकं तु वरं पुत्रं लभते नात्र संशयः । प्राशनं मध्यमं पिप्डं पितामह स जीवति ॥१८॥ नारी प्रसूयते पुत्रं लभते नात्र संशयः । कल्पना च त्रयोदश्या आनन्यायोपकल्पते ॥१६॥ प्रतिपत्प्रभृति तद्वर्जयित्वा चतुर्दशीम् । शस्त्रेण तु हताये वै तेषां श्राद्ध प्रदीयते ॥२०॥