________________
[ चतुर्थो
२३६४ ब्रह्मोक्तयाज्ञवल्क्यसंहिता
कश्चिदस्तिवंशे ते तृप्तयेऽन्नं भुवितेमत्प्रयान्तु पोषायसुखाय। निधायदर्भम्विधिदक्षिणा (न्यू) प्रयत्नतः । उदङ्मूलं समास्तीर्य दर्भान्नुच्छिष्टसन्निधौ ॥१२०॥ श्राद्ध संकल्पिते चैव उपवीते नीविबन्धने । गर्भहीनं कुशं कुर्याद्यदीच्छेच्छुम्मात्मनः ॥१२१।। विकिरं तत्र विन्यस्य आचम्य प्रयतः शुचिः । पिण्डदानं ततः कुर्याद्धयात्वापितृपरायणम् ॥१२२॥ पिण्डे दद्यात्तु पूर्वेण सांगुष्ठं मुष्टिबन्धनात् । सव्य जानुमधः कृत्वाभूमौ पितृ परायणः ॥१२३॥ नामगोत्रस्वधाकारमुच्चार्यपितृपूर्ववत् । पितृ पूर्वेण दातव्य पिण्डश्वव त्रिकं त्रिकम् ॥१२४॥ नामगोत्रस्वधाकारमुच्चार्य विधिपूर्वकम् । दत्ते पिण्डं ततस्तेतु विसृज्याल्ल पभागिना ॥१२५॥ कुशाग्र स प्रदातव्यं प्रीतन्त्रोलेपभागिनः । दत्ते पिण्डे ततस्तेतु पुनराचम्य चैव तु (तत)॥१२६॥ सतिलमुदकं पित्र्यं पितृमूर्द्धनिवक्षिपेत् । अत्र पित्रोनमोवः सांगुष्ठां ब्रह्मसूत्रकम् ।।१२७॥ पितृश्चमनसाध्यात्वाऽक्षतं निक्षिपेद्भुवि । गन्धपुष्पार्चनं कुर्यात्सफलं तत्प्रदक्षिणम् ॥१२८॥ समभ्यर्च्य ततः पिण्डान्समस्तकानुगः । आयु प्रज्ञा स्मृतिम्मेधां पुत्रानैश्वर्यमेव च ॥१२६॥