________________
२३६२ ब्रह्मोक्तयाज्ञवल्क्यसंहिता [चतुर्थो
निरङ्गुष्ठं तु यच्छ्राद्धं वहिर्जानुचयत्कृतम् । अश्रद्धायाऽपिचयहत्तं सर्व शेयं तदासुरम् ।।६।। भाजनं लभनंयावद्भुक्त्वाचान्नं यथाविधि । यथासुखंजुषध्वं व इतिवाच्यमनुष्ठिते ॥१०॥ भुञ्जानस्तरु(?)त प्राणस्पृष्टान्न सौ(?)सुखम् । रक्षोनी च जपेन्मन्त्रं तिलाश्चविकरेन्महीम् ॥१०१॥ स्वाध्यायंश्रावयेद्विप्रान्पुराणान्यखिलानि च। इन्द्रामी सोमसूक्तञ्च पावमानीस्तथैव च ॥१०२॥ पुरुषसूक्तं यजुषां पिण्डब्राह्मणसत्पथः । पितृस्तवं तु पञ्चैव गायत्री मधुब्राह्मणाः ॥१०३॥ विप्राणामात्मनश्चापि एतत्सवं जपन्ति ये। तत्सव्वं च जपेच्छ्राद्ध प्राणायामन्तुकारयेत् ।।१०४॥ पितृवत्तानद्विजान् सर्वान् ज्ञात्वा तृप्तिपृष्ट्वा ततः परम् । यूयं तृप्ताः ततः पृष्ट्वाशेषन्याथमन्वहम् ॥१०॥ स्वल्पमन्नमुपादाय विकीर्याऽऽचम्यवारिणा। देवपित्रान्तरे भूमौ मन्त्रेणानेनवैक्षिपेत् ।।१०६॥ येषान्नं पचते मातायेषान्नं पचतेपिता। उच्छिष्ट ये नकाङ्क्षन्ति तेषां वै दत्तमक्षयम् ॥१०॥ तत आचमनं दद्यादनुज्ञातास्तु ये द्विजाः । कृताञ्जलिपुटोभूत्वा गायत्री च मधुजपेत् ।।१०८॥ मधुमन्नं समासाद्य अष्टांगं पिण्ड उच्यते । उपलिप्त तदधिष्ठे' गोशकृद्वारिणापिवा ॥१०६॥