SearchBrowseAboutContactDonate
Page Preview
Page 577
Loading...
Download File
Download File
Page Text
________________ ब्रह्मोक्तयाज्ञवल्क्यसंहिता [ चतुर्थी योजयेच्छ्राद्धदानेन पितृयज्ञं न लोपयेत् । मातामहानामप्येवं कर्त्तव्यं वैश्वदैविकम् ||३८|| सदा चैवं प्रकुर्वीत काम्यकेषु विशेषतः । द्रव्याभावे द्विजाभावे विष्णुं सन्निध ( सान्निध्यं) योजयेत् । ३६ श्राद्धपाकं पुरस्कृत्य विष्णवे परमात्मने । दीपज्योतिः समायुक्तमुपकल्प्य जनार्दनं ॥४०॥ अनेनैव विधानेन द्विजाभावे करोति यः । पितरस्तस्यतृप्यन्ति सोमपाने दिने दिने || ४१ || ब्रह्मार्पणं ब्रह्महविर्ब्रह्माग्नौ ब्रह्मणाहुतम् । तेन ते भगवानीशो नित्यं प्रीणाति केशवः ॥४२॥ पुनर्भोजनम्मध्यान्हेऽध्ययनं मैथुनं तथा । दानं प्रतिग्रहोऽध्वक्लेशं भुक्तवाष्टकविवर्जयेत् ||४३|| श्राद्ध अध्वाभवेदश्वः पुनर्भोजी च वायसः । मैथुने रेत अश्नाति दुष्टान्ने नरकं व्रजेत् ॥ ४४ ॥ अध्ययने तु भवेत्प्रेतो दानेभवतिराक्षसः । प्रतिग्रहे भवेद्दासोऽध्यापने कुक्कुटोभवेत् ॥४५॥ तस्मात्सर्वप्रयत्नेन कर्त्ता भोक्ता तु वर्जयेत् । ब्राह्मणन्तु समासाद्यश्राद्धं कुर्यात्प्रयत्नतः ||४६|| द्वौ देवे प्रास्त्रयः पित्र्ये एकैकमुभयेऽथवा । मातामहानाप्येवं तंतं वा वैश्वदेविकम् ॥४७॥ २२८६ श्वानचाण्डालवाराह कुक्कुटाश्व रजस्वलाः । यत्रेते निवसन्तीह श्राद्धं तत्र न कारयेत् ||४८||
SR No.032670
Book TitleSmruti Sandarbh Part 04
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages720
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy