________________
२३८४ ब्रह्मक्तोयाज्ञवल्क्यसंहिता [चतुर्थो
सदासेवी च खल्वाटः कुप्रतिग्रहकारकः । अज्ञातकुलगोत्रो यः द्विननो(?, शिल्पिकर्मकृत् ॥१६॥ भृतकाध्यापकश्चैव श्वित्री कुष्ठीरतथैव च । काणश्चद्राविड़श्चैवालोमाबहुलोमजः ॥१५॥ कुलाचारविनिभ्रष्टो लोकदुष्टरतस्थैव च । अवकीर्णी कुण्डगो कुनखी श्यावदन्तकः ॥१८॥ मित्र- विपशुनोव्याधिवाग्दुष्टः पापकृत्तथा । कुणपायुधजीवी च अग्निदो गरदस्तथा ॥१६॥ सोमविक्रयकारी च तिलकानुजीवकः । पितृमातृपरित्यागी मद्यपी गंडमालिनः ॥२०॥ वृषलीपति दुष्का राजयक्ष्मी तथैव च । अवतानामुपाध्यायकाण्डपृष्टाश्चयेद्विजाः ॥२१॥ सर्वेनार्हन्तिते श्राद्ध पितृकर्मसु वर्जयेत् । द्विजशायन काले च पुत्रप्रतिनिधधनयः (१)|२२|| सर्वे ते पुत्रिकाप्रोक्ता कणदुष्टाननाधमाः। अयतिमोक्षवादी च चतुर्थाश्रमवर्जितः ॥२३॥ कृतघ्नश्चकुलीनश्च गुरुघातक यो द्विजः । धर्माचारविहीनाश्च एताञ्छ्राद्ध पुवर्जयेत् ।।२४॥ एकैकमपिविद्वांसं दैवे पित्र्ये च भोजयेत् । पुष्कलंफलमाप्नोति नान्या (?) चार्चेत्तथाबहून् ।।२।।
सहस्र हि सहस्राणामनृचा (१) यत्रपूजयेत् । .. एकैकमपि विद्वांसो सर्वानहन्ति धम्मतः ॥२६॥