________________
२३७२ ब्रह्मोक्तयाज्ञवल्क्यसंहिता [द्वितीयो
एवं यो भुज्यते नित्यं निरग्निर्मोक्षमाप्नुयात् । नोच्छिष्ट्वोच्छिष्टमादद्याजग्ध्वान्नं नैव दापयेत् ॥१८४।। आसनो पादरूढस्तु न भुंजीत कदाचन । उच्छिष्टे घृतदानञ्च पायसं ताम्रभाजने ।।१८।। लवणं क्षीर संयुक्त त्रीण्येतानि न भक्षणम् । उच्छिष्टे दानमादद्यात् तप्तकृच्छ व्रतं चरेत् ।।१८६।। ताम्रस्थो पायसं भुक्त्वा चरेच्चान्द्रायणं शुचिः। अन्नं पर्युषितं भोज्यं स्नेहाक्त चिर संस्थितम् ।।१८७।। अघृताम्रषि(?)गोधूमायवान्नं गोरसः शुचिः । न सक्तौ पाकदोषः स्यात् सिद्ध धान्ये तथैव च ॥१८॥ घृतपक्वे गुड़ाक्त च न दोषः परिविद्यते । अन्ने भोजनसंपन्नं मक्षिकाकेशदूषिते ॥१८६।। अनन्निरस्पृशेन्नोधं(?)तं स्थानं भस्मना स्पृशेत् । विप्रो विप्रेण संस्पृष्टो उच्छिष्टेन कदाचन ॥१६०।। आचम्य तु ततः शुद्धः प्राणायामत्रयोदशैः। क्षत्रियेण यदास्पृष्टो उच्छिष्टेन कदाचन ॥१६॥ स्नाने दाने भवेत् शुद्धिः प्राणायामैस्तु पोडशैः । उच्छिष्टेन यदास्पृष्टो वैश्ये विप्रस्तु क्षत्रियम् ॥१६२।। अपराल विशुद्धिःस्यात्प्राणायामैस्तु विंशतिः । उच्छिष्टेन तु संस्पृष्टः शुनाशूद्रेण वा द्विजः ॥१६३।। जपेत्सहस्रं गायत्रीमहोरात्रमुपोषणम् । पंचगव्यं दिने प्राश्य.सन्थ्योपास्ति करोति वै॥१९४||