________________
२३६८ ब्रह्मोक्तयाज्ञवल्क्यसंहिता [द्वितीयो
भूरादिव्याहृति (ती) श्चैव महाव्याहृतिमेव च ॥
शाकलैश्च ततो हुत्वा दद्याद्भूमौ बलिं ततः॥१४३॥ देव कृतस्यौषणां प्रजापतिऋषिः लिङ्गोक्ता देवता अनुष्टुप्छन्दः शाकल होमे विनियोगः।
हुत्वा तु शाकला होमं ततो भूमि बलि हरेत् । विश्वेभ्यो देवेभ्यश्च मध्येभूमि बलिं हरेत् ।।१४४॥ . ब्रह्मसूत्रन्तु कण्ठेन सर्वेभ्यो भूतेभ्यस्तथा(१) । प्राचीना वितिना दद्यात्परमपितृभ्यः स्वधाचरेत् ॥१४॥ पात्रे निर्णेजनञ्चैव यक्ष्मैतत्तत्युदीरयेत् । ब्रह्मयज्ञं ततः कुर्याजपयज्ञं तथैव च ॥१४६।। उपकल्प्यततोऽन्नम्वा नैवेद्यञ्च चतुर्विधम् । वैश्वदेवेभ्यश्च ?) प्रथमांशमुपकल्पयेत् ।।१४७|| सनकादिमनुष्येभ्यो द्वितीयांशं प्रकल्पयेत् । वाद्य षा चलिभिर्दद्यात्स्वभ्यः स्वपतिभ्य एव च ॥१४८।। श्वभ्यश्च श्वपचानां च पतिता(?) पापरोगिणाम् । कृमीणां च पतंगानां सनकैनिक्षिपेद्भुवि ॥१४६।। श्वानौद्वौ श्यामशवलौ वैवश्वतकुलोद्भवौ । तयोरन्नम्प्रदास्यामि इमं पिण्डमयोद्ध तम् ॥१५०।। गृहपूजां ततः कुर्याच्छान्तिकं नित्यमेव च ।
वामे धाता तु संपूज्य विधाता चैव दक्षिणे ॥१५१।। गृहमध्येश्रितं पूज्य अन्ने च कुलदेवता क्षितिजलपवन हुताशनेभ्यो नमः।