________________
२३६६ ब्रह्मोक्तयाज्ञवल्क्यसंहिता [द्वितीयो
सुगन्धिन्तु मुखोन्यस्य हृदयेपुष्टि वर्द्धनम् । उर्वारुकन्यसेन्नाभौ बंधनादि कट्यां न्यसेत् ।।१२८।। मृत्योरिति उरौन्यस्य मृतादिति च पादयोः । ततः षडङ्ग विन्यस्य देवदेवं महेश्वरम् ॥१२६।। ॐ नमो भगवते रुद्राय हृदये। ॐ नमो भगवते रुद्राय शिरसि ॥ ॐ नमो भगवते त्र्यम्बकाय शिखायाम् । ॐ नमो भगवते त्र्यम्बकाय आन्योराय(?)अस्त्र्याय फट् । त्र्यम्बकेसास(शक्ति)माहूय पूजार्थं परमेश्वरम् ॥ त्र्यम्बकेसापुनस्थाप्य त्र्यम्बकेन(ण) समर्च येत् । पूष्पधूपादिनैवेद्यपुष्पाञ्जलिविधानतः ॥१३०।। पूजयेद्देवदेवेशं मृत्यरोग विनाशनम् । त्र्यम्बकेणैव मन्त्रेण पूजयेत्परमेश्वरम् ।।१३१॥ पुनरेव पुनर्जाप्यं त्रयम्बकन्तु पुनः स्मरेत् । पुन ायेत देवेशं चन्द्रमण्डलसंस्थितम् ॥१३२।। चन्द्रावभाससंयुक्त जटाजूटसमन्वितम् । कलशावभृतःपूर्णौ वरदाभयदायिनौ ॥१३३।। ध्यात्वैवं देवदेवेशं जपेन्मन्त्र तु त्र्यम्बकम् । ततो वन्हि समासाद्य वा पासन कर्मणि ॥१३४।। अग्निहीनास्तु ये विप्रास्तथा वाजसनेयिनः । वाह्योपस्तिविधानेन ब्रह्मणा नोदिता पुर। ॥१३॥