________________
ऽध्यायः] देवपूजाविधानवर्णनम् २३६५
ॐ सहस्रशीर्षे इत्यावाहनम् । पुरुष एवेत्यासनम् । एतावानस्येति पाद्य त्रिपार्श्वत्यध्यं ततो विराडित्याचमनम् स्नानन्तु यस्माद्यज्ञेति तस्माद्यजेत्युपवीतकम् । यज्ञमिति गंधं यत्पुरुषंमिति पुष्पाणि दापयेत् ॥ धूपं दद्याद्ब्राह्मणोऽस्य चन्द्रमामन दीपकम् । नाभ्या आसीति नैवेद्य यत्पुरुषेण पुष्पाणि दापयेत् ॥ पुष्पाञ्जलिं सप्तास्येतिपरिक्रम्य यज्ञेनेति विसर्जनं पुनरेव पुनर्जप्यं पुरुषसूक्तं पुनः पुनः।
ध्येयः सदासवितृमण्डलमध्यवर्ती । नारायणः सरसिजासनसन्नि विष्टः । केयूरवान्कनक कुण्डलवान्किरीटी।
हारी हिरण्मयवपु तशंखचक्रः ॥१२४॥ एवं क्रमेण सम्पूज्य देवदेवं जनार्दनम् । आगमोक्तविधानेन यः पूजयति केशवम् ।।१२।। चतुर्वर्ग फलं प्राप्य विष्णुलोकं स गच्छति । पुनस्त्र्यम्बकम्पूज्य (सम्पूज्य) सर्व दुःख निवारणम् ।। महामृत्युविनाशी (शिन) सर्वसौरव्यविवर्द्धनम् ।।१२६।।
ॐ त्र्यम्बकमन्त्रस्य वशिष्ठऋषिः श्री मृत्युञ्जयरुद्रो देवताऽनुष्टुप्छन्दत्र्यम्बके विनियोगः॥
देवदेवौ प्रणवबीजं त्र्यम्बके करशोधनं । व्याहृत्यादौ मंत्रपादौ विन्यसेत् ॥ करेण विन्यसेन्मन्त्रमष्टागं विन्यसेत्पुनः । त्र्यम्बकं शिरसिन्यस्य ललाटं च यजामहे ॥१२७।।