________________
२३६४ ब्रह्मोक्तयाज्ञवल्क्यसंहिता [द्वितीयो
आगमोक्तन मंत्रेण विधाने पूजयेद्धरिम् । पुष्पधूपादिनैवेद्यः पुष्पाञ्जलिविधानतः ।।११।। विष्णु समर्चयेद्यस्तु सोऽपि विष्णुं समाविशेत् । दद्यात्पुरुषसूक्त न यः पुष्पाञ्जलि नित्यशः ।
अचितं स्याजगदिदं तेन सव्वं चराचरम् ।।११६॥ अस्य पुरुष सूक्तस्य नारायण ऋषिः पुरुषोत्तमो देवता (जगद्ध जा) नुष्टुप्छन्दः पुरुषसूक्त विनियोगः ॥
प्रथमं विन्यसेद्वामं द्वितीयं दक्षिणे उरौ । तृतीयं वामपादे तु चतुर्थं दक्षिणेन्यसेत् ॥११७|| पञ्चमं वामजानौ तु षष्ठं वै दक्षिणे तथा। सप्तमं वामस्कन्धे तु अष्टमं कटि दक्षिणे ॥११८॥ नवमं नाभिमध्येतु दशमंहृदि विल्यसेत् । एकादशं कण्ठमध्ये द्वादशं वामवाहु च (षु) ।।११।। त्रयोदशं दक्षिणं बाहुं आस्यदेशे चतुर्दशम् । अक्ष्णोः पञ्चदशंन्यस्य षोडशं मूर्ध्नि विन्यसेत् ॥१२०॥ पुनासं ततः कृत्वा षडङ्ग मंत्रविद् द्विजः। ॐ अभ्य संहृदि विन्यस्य वेदाहंशिरसि तथा ।।१२।। प्रजापतिः शिखायांतु यो देवेभ्यः कवचाय हुम् । रुचं ब्राह्म त्रिनेत्रे तु श्रीश्चते अस्त्राय फट् ॥१२२।। ततो देवं समाहूय पूजार्थं परमेश्वरम् । आत्मानं सवित मध्ये वा वारुणस्थं परमेश्वरम् ।।१२३।।