________________
२३५० ब्रह्मोक्तयाज्ञवल्क्यसंहिता [द्वित्तीयो
निष्क्रम्य नासा. प्रवरावशेषं प्राणंवहिः शून्यमिवानलेन । निरुच्छ्वसंस्तिष्ठति वोर्ध्व वायुः
मरेचकोनाम महानिरोधः ॥५६।। नीलोत्पलदलश्यामं नाभिमध्ये प्रतिष्ठितम् । चतुर्भुजं महात्मानं पूरकेनैव चिन्तयेत् ॥६०॥ कुम्भकेन हृदिस्थानं ध्यायेच्च कमलासनम् । ब्रह्माणं रक्त गौराङ्ग चतुर्वक्त्रं पितामहम् ॥६१।। रेचकेनेश्वरं विद्या ललाटस्थं महेश्वरम् । शुद्धस्फटिकसंकाशं निर्मलं पापनाशनम् ॥६२॥ सव्याहृती सप्रणवां प्राणायामस्तुषोडश । अपि भ्रूणहनं मासा युनात्यहरहः क्रमात् ॥६३।। प्राणायामाः ब्राह्मणेन त्रयोऽपिविधिवत्कृता । व्याहृति प्रणवैः साद्धं विज्ञेयं परमं तपः ॥६४॥ यदा विरोधात्संयोगाद्देवतात्रयचिन्तनम् । अग्नि वायुरवि योगात्तदाशुद्धयं तवै त्रिभिः ॥६५।। निरोधाज्ज्ञायते वायुह्ययोरग्निः प्रजायते । अग्नोरापो विजायन्ते ततोऽत्रभिद्यतेत्रिभिः ॥६६॥ यदा स देवो जागर्ति तदेतं चेष्टितं जगत् । ततोऽसावाचमनं कुर्यात्प्राणायामं विसर्जयेत् ॥ पापभक्षणसंयोगादृषिश्छन्दश्च संयुतम् ॥६७॥ अग्निश्चमेति सायान्हे प्रातः सूर्यश्चमेति च ।।