________________
२३४८
ब्रह्मोक्तयाज्ञवल्क्यसंहिता
[द्वितीयो
आपोहिष्ठा ऋचस्तिस्रो द्रुपदादिवाघमर्षणम् । उद्वयमुदुत्यं चैव चित्रन्तच्चक्षुरेव च ॥४३॥ तेजोऽसीति तुरीयञ्च सन्ध्यामेतत्समाचरेत् । ऋषिश्छन्दश्च वेदानां संध्याहीनानुपासिता ॥४४॥ सा संध्या वृषली ज्ञेया विनियोगविवर्जिता। अथ सप्तव्याहृतीनां गौतमभरद्वाज विश्वामित्र । जमदग्निवशिष्ठ कश्यपात्रिमृषयः। अग्निर्वायुः सूर्य प्रजापतिर्वरुणेन्द्र विश्वेदेवा देवता ॥ गायत्र्युष्णिगनुष्टुपबृहतीपङ्क्ति त्रिष्टुब्जगत्यश्छन्दांसि । सर्वेषामंगिरसः प्रजापति षिः ॥ . ब्रह्माग्नि वायु सूर्यादेवताः शासुरी गायत्री छन्दः। सर्वेषाम्प्राणायामे विनियोगः ।। सरस्वतीं तु सायान्हे कृष्णाङ्गी पीतवाससा । ब्रह्मरूपाचहंसस्था प्राणायामाप्तमाह्वयेत् ॥४॥ मध्यान्हे चैव सावित्री श्वेतवासा रुद्ररूपा । वृषा रूढा प्राणायामेषु (१) विनयेत् ॥४६॥ ॐ कारं तु समुच्चार्य समन्तादुदकं क्षिपेत् । आवाहयेत् ततो देवीं नासिका निरीक्षयेत् ॥४७॥ पूरकं कुम्भकं चैव रेचकञ्च यथाक्रमम् । कनीय(?) मंकनी प्रभ वृद्धप्राणायामस्त्रिलक्षणः ॥४८॥ मात्रा द्वादशकं प्रोक्त कनीयः परिकीर्तितः । चतुर्विशति मात्रायां मध्यमं प्रोच्यते बुधैः ॥४॥