________________
नित्यनैमित्तिक कर्मवर्णनम्
चतुः कोणमिति स्पष्ट विकरालमुदाहृतम् । पैशाचं विन्दुसंयुक्त तिलकं धर्मनाशनम् ॥३२॥ ललाटादि कपालान्तं केशवादिन्यसेद्धरिम् । द्व ेदर्भे दक्षिणे हस्ते सव्येन्रीण्यासनेतथा ॥३३॥ पादमूले शिखायांच उपवीते सकृत्सकृत् । अनामिका धृतेदर्भे मध्यमा न कदाचन ॥३४॥ मध्यमानामिकादर्भे पुत्रमित्र श्रियं हरेत् । उभाभ्यामपिपाणिभ्यां धार्यो विप्रैः पवित्रकैः ||३५||
ऽध्यायः ]
२३४७
ब्रह्मप्रन्थिसमायुक्तं गायत्र्या चाभिमन्त्रितम् । ब्रह्मग्रन्थिपवित्रेण सन्ध्योपास्तिं करोति सः ||३६|| स वै द्वादशवर्षाणि कृतसन्ध्यो भवेन्नरः । ब्रह्मग्रन्थिसमायुक्त संध्योपाति करोति चेत् ॥ पञ्चाग्नयो हुतास्तेन यावज्जीवं न संशयः ||३७|| संध्यास्नाने जपेहोमे ब्रह्मप्रन्थिर्विधीयते ॥३८॥ भोजने वर्त्तुलोग्रन्थिरेषधम्मों विधीयते । चतुर्भिदर्भयं जूत्यै ( पुज्जैश्च) ब्राह्मणस्य पवित्रकम् ॥३६॥ एकैकन्न्यूनमित्याहुर्व्वर्णे वर्णे यथाक्रमम् । दर्भाश्च ब्राह्मणा मन्त्रब्रह्मग्रन्थि पवित्रकम् ||४०|| नैव निर्माल्यतां यान्ति नियोज्यानि पुनः पुनः । कुशाकाशास्तथा दूर्वा यवाश्चैव तु वल्वजाः ॥४१॥ पुण्डरीकास्तु विज्ञेयाः षड्विधंकुश उच्यते । ॐ कारव्याहृती सप्तं गायत्री सशिरं तथा ॥४२॥