SearchBrowseAboutContactDonate
Page Preview
Page 539
Loading...
Download File
Download File
Page Text
________________ अथ द्वितीयोऽध्यायः . नित्यनैमित्तिक कर्मवर्णनम् अत एव प्रवक्ष्यामि ब्रह्मणा कथितापुरा । यजुषां माध्यन्दिनीशाखा कात्यायनपराशराः ॥१॥ अग्निहीनास्तु ये विप्रास्तथा वाजसनेयिनः । स्नानादौ भोजनान्तञ्च तथाश्राद्ध द्विजोत्तमाः॥२॥ ब्रह्मणागदितम्पूर्व सर्वेषां धर्ममुत्तमम् । तदहं सम्प्रवक्ष्यामि यथासंख्यंसमुच्चयम् ॥३॥ नित्यनैमित्तिकं काम्यं श्राद्धञ्च त्रिविधंस्मृतम् । पूर्वन्नैमित्तिकं कुर्यात्ततो नित्यं समाचरेत् ॥४॥ नित्यन्तु वैश्वदेवःस्यात्क्षयेऽहनिनैमित्तिकम् । काम्यकं कृष्णपक्षे च सर्वकामफलप्रदम् ॥ ५॥ वैश्वदेवं ततः कुर्याद्वलिकर्म ततः परम् । पञ्चसूना गृहस्थस्य वर्ततेऽहरहः सदा ॥६॥ कण्डनी पेषणी चुल्ली जलकुम्भी च माजनी। एताश्च वाहयन्विप्रो वाध्यते वै मुहुर्मुहुः ॥ ७॥ एतेषां पावनार्थाय पञ्चयज्ञाः प्रकीर्तिताः । अध्ययनं ब्रा(ब्रह्मयज्ञः पितृयज्ञस्तु तर्पणम् ॥ ८॥ होमो दैवोवलिर्भूतनृयज्ञोऽतिथिपूजकः । श्राद्धं वा पितृयज्ञन्तु पित्र्यो वलिरथापि वा ॥६॥
SR No.032670
Book TitleSmruti Sandarbh Part 04
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages720
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy