SearchBrowseAboutContactDonate
Page Preview
Page 533
Loading...
Download File
Download File
Page Text
________________ २३३८ बृहद्योगियाज्ञवल्क्यस्मृतिः [द्वादशो अनन्तं चाप्रमाणं च सर्व वेदात् प्रसिध्यति । इति संचिन्त्य मुनिना वेदाचार्येण धीमता ॥ याज्ञवल्क्येन विप्राणां त्रयीमार्गः प्रदर्शितः ॥४२॥ येन गच्छन्ति विद्वांसः सत्पथा ब्रह्मणोऽन्तिकम् । असत्पथेन विप्रस्य गमनं हि विरुध्यते ॥४३॥ वेदान्तानां हि सर्वेषां या निष्ठा समुदाहृता। उपास्या यादृशी चैव मुनिना समुदाहृता ॥४४॥ ओंकारस्याथ गायत्र्या व्याहृतीनां शिरस्य च । स्नानस्य चैव संध्यायाः प्राणायामस्य चैव हि ॥४॥ प्रत्याहारस्य ध्यानस्य मार्जनान्तर्जलस्य च । उपस्थानस्य होमस्य आत्मज्ञानस्य यो विधिः ।।४६।। विद्याऽविद्याविचारं च त्रयीविद्याभिशंसनम् । तत् सर्व मुनिना प्रोक्तं विप्राणां हितकाम्यया ॥४७|| य इदं धारयेद्विप्रः स्वधीतं श्रुणुयाच्च यः । मया स ते तु यः प्रोक्त(?)सोऽमृतत्वाय कल्पते ॥४८॥ सर्वाणि भूतानि ममान्तराणि सर्वेषु भूतेष्वहमन्तरस्थः । पश्यन्ति ये योगविदो मनुष्यास्तेषां प्रदेयं न तु योऽन्यथा स्यात् ।।४।। इति श्रीबृहद्योगियाज्ञवल्क्ये (विद्याऽविद्या निर्णयो नाम ) द्वादशोऽध्यायः ।
SR No.032670
Book TitleSmruti Sandarbh Part 04
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages720
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy