________________
बृहद्योगियाज्ञवल्क्यस्मृतिः [द्वादशोयः कश्चित् कस्यचिद्धर्मों मनुना परिकीर्तितः। स सर्वोऽभिहितो वेदे सर्वज्ञानमयो हि सः॥२०॥ तस्माद्वदाहते नान्यदध्येतव्यं द्विजन्मना। वेदबाह्य तु यत् किञ्चिन्नाध्येतव्यं कदाचन ॥२१॥ या वेदबाह्याः स्मृतयो याः काश्चन कुदृष्टयः । सर्वास्ता निष्फलाः प्रेत्य तमोनिष्ठा हि ताः स्मृताः ।।२२।। उत्पाद्यन्ते व्ययन्ते च यानि तानि तु कानिचित् । एतान्याकालिकानि निष्फलान्यवृतानि च ॥२३॥ योऽनधीत्य द्विजो वेदमन्यत्र कुरुते श्रमम् । . स जीवन्नव शूद्रत्वमाशु गच्छति सान्वयः ॥२४|| मूलस्तम्भो भवेद्वदः शाखाश्वान्यानि यानि तु । मूले ह्यु पासिते सम्यक् फलं भवति नान्यथा ॥२५॥ उच्छिन्नशाखा याः काश्चित्तथा वेदान्तराणि च । अन्तर्धानगतानीह स्मृत्वा तु स्मृतयः कृताः ॥२६॥ एकमेव हि विशेयं श्रुतिस्मृतिविचक्षणैः । तस्मात्तुल्यबलत्त्वात्तु विकल्पश्च क्वचित स्मृतः ।।२७।। श्रुतिस्तु वेदो विज्ञेयो धर्मशास्त्रं तु वै स्मृतिः । ते सर्वार्थेष्वमीमांस्ये ताभ्यां धर्मो हि निर्बभौ ॥२८॥ योऽवमन्येत ते तूभे हेतुशास्त्राश्रयो द्विजः । स विद्वद्भिर्बहिः कार्यो नास्तिको वेदनिन्दकः ॥२६॥ हेतुशास्त्राणि योऽधीते वेदबाह्यो भवेद्विजः । तेन नास्तिक्यभावेन सर्वे (व) मन्येत सोऽन्यथा ॥३०॥