________________
अथ द्वादशोऽध्यायः
विद्याऽविद्यानिर्णयवर्णनम्
न वेदशास्त्रादन्यन्तु किश्विच्छास्त्रं हि विद्यते । सर्वं विनिःसृतं शास्त्रं वेदशास्त्रात् सनातनात् ॥१॥ दुर्बोधं तु भवेद्यस्मादध्येतु नैव शक्यते । तस्मादुद्धृत्य सवं हि शास्त्रं तु ऋषिभिः कृतम् ||२||
पुराणतर्कमीमांसाधर्मशास्त्राङ्गमिश्रिताः । वेदाः स्थानानि विद्यानां धर्मस्य च चतुर्दश ॥३॥ सांख्यं योगं पश्चरात्रं वेदाः पाशुपतं तथा । अतिप्रमाणान्येतानि हेतुभिर्न विचालयेत् सांख्यस्य कर्ता कपिलः परमार्थः स उच्यते । हिरण्यगर्भो योगस्य वक्ता नान्यः पुरातनः पञ्चरात्रस्य सर्वस्य वक्ता नारायणः स्वयम् । अपांतरतमश्चैव वेदाचार्यः स उच्यते
11211
॥६॥
11811
प्राचीनगर्भ तमृषि प्रवदन्ति हि केचन । उमापतिः पशुपतिः श्रीकण्ठो ब्रह्मणः सुतः ॥७|| प्रोक्तवानिदमत्युग्रं ज्ञानं पाशुपतं हरः ।
अत उध्वं तु ये केचिद्व ेदशास्त्राण्यनेकशः ||८||