________________
२३३२ बृहद्योगियाज्ञवल्क्यस्मृतिः एकादशो
ब्राह्मणेषु तु विद्वांसो विद्वत्सु कृतबुद्धयः ।। कृतबुद्धिषु कर्तारः कषु ब्रह्मवेदिनः . ॥३७॥ सर्वेषामपि चैतेषामात्मज्ञानं परं स्मृतम् । तद्धय सर्वविद्यानां प्राप्यते ह्यमृतं ततः ॥३८॥ प्रवृत्तिश्च निवृत्तिश्च द्विविधं कर्म वैदिकम् । निःश्रेयसकर ज्ञेयं द्विजानामिह सर्वशः ॥३॥ कर्मणां समनुष्ठानमाश्रमाणां च सेवनम् । पुत्रदारादिसंसक्तिः प्रवृत्तं कर्म चोच्यते ॥४०॥ नियमानामनुष्ठानं सम्यगात्मविचिन्तनम् । सुतादिष्वनभिष्वङ्गो निवृत्तं कर्म वैदिकम् ॥४१॥ प्रवृत्तं सेवमानस्तु स्वर्गलोके महीयते । निवृत्तं सेवमानस्तु ब्रह्मभूयाय कल्पते ॥४२॥ न तमः कारणं किञ्चिद्योगधर्मे प्रवर्तते। आनन्तर्यात् प्रमाणं तु सर्वमेतदकारणम् ॥४३॥ ब्रह्मचारी गृहस्थो वा वानप्रस्थो यतिस्तथा। आत्मज्ञानेन मुच्यन्ते यत्र तत्राऽऽश्रमे रताः ॥४४॥ स्वकर्मणामनुष्ठानात् सम्यगात्मनि दर्शनात् । वेदान्तानां परिज्ञानाद् गृहस्थोऽपि हि मुच्यते ॥४।। यतः प्रवृत्तिर्भूतानां येन सर्वमिदं ततम् । स्वकर्मणा तमेवार्च्य सिद्धिं प्राप्नोति मानवः ॥४६॥ कर्मसंन्यासयोगेन ब्राह्मणः सिद्धिमाप्नुयात् । कमणां नियतानां तु त्यागो नैव विधीयते ॥४७॥