________________
ऽध्यायः] योगधर्मवर्णनम् २३३१
ऋचो यजूषि चान्यानि सामानि विविधानि च । एवं ज्ञेयनिवृद्व दो यो वेदैनं स वेदवित् ॥२६।। आद्य यत् त्र्यक्षरं ब्रह्म त्रयी यस्मिन् प्रतिष्ठिता। स तु ज्ञेयस्त्रिवृद्वदो यो वेदैनं स वेदवित् ॥२७॥ पलालधान्यशूकादि तुषकणसमन्वितम् । यत् स्थूलं तादृशं ज्ञेयं सूक्ष्मं तण्डुलवत् स्मृतम् ॥२८॥ वाक्प्रपञ्च तु यत् स्थूलं शब्दब्रह्म महत्तरम् । त्रिवर्गफलदं ज्ञेयं यदि सम्यगधीयते ॥२६॥ वेदोऽधीतो ददच्छुद्धिं भ्रंशितो नरकप्रदः । न्यायेनेष्टो ददत् स्वर्ग पुनरावृत्तिकारकम् ॥३०॥ सूक्ष्मं तत् परमं गुह्य त्रयं ब्रह्म सनातनम् । वेदवेदान्तयोः सारं त्रिविधं ब्रह्मणो मखम् ॥३१॥ मोक्षदं तु समुद्दिष्टं विदितं नात्र संशयः । षट्कर्मणामनुष्ठानादाश्रमाणां च सेवनात् ॥३२॥ तपसा वा सुतीव्रण सर्वविद्याविवेचनात् । मोक्षावाप्तिस्तु न भवेहते ज्ञानाच्च कर्मणः ॥३३॥ इज्याचारो दमोऽहिंसा दानं स्वाध्यायकर्म च । अयं तु परमो धर्मो यद्योगेनात्मदर्शनम् ॥३४॥ चत्वारो वेदधर्मज्ञा यत्र त्रैविध (द्य) मेव वा। स ब्रूते यः स धमः स्यादेको वाध्यात्मवित्तमः ।।३।। भूतानां प्राणिनः श्रेष्ठाः प्राणिनां बुद्धिजीविनः । बुद्धिमत्सु नराः श्रेष्ठाः नरेषु ब्राह्मणाः स्मृताः ॥३६॥