SearchBrowseAboutContactDonate
Page Preview
Page 525
Loading...
Download File
Download File
Page Text
________________ २३३० बृहद्योगियाज्ञवल्क्यस्मृतिः [एकादशोअसंयमेन येऽधीता न त्रायन्ति कदाचन । भृगेका संयमस्थेन अधीता पारयत्यपि ॥१६॥ आमपात्रे यथान्यस्तमापो मधु घृतं पयः । नश्यन्ति पात्रदौबल्यात्ते रसास्तस्य भाजनम् ॥१७॥ एवं झपात्रसंयोगात्तधीतं विनश्यति । पात्रदोषेण संदुष्टमपवित्रं भविष्यति ॥१८॥ न वेदपलमाश्रित्य पापं कम समाचरेत् । अज्ञानाद्धि कृतं पाषं वेदाभ्यासेन शुद्धयति ॥१६॥ आचरहीनं न पुनन्ति वेदा। ____ यद्यप्यधीताः सह षड्भिरङ्गः॥ छन्दांस्येनं मृत्युकाले त्यजन्ति । नीडं शकुन्ता इव जातपक्षाः ॥२०॥ गायत्रीमात्रसंतुष्टः श्रेयान् विप्रः सुयन्त्रितः । नायन्त्रितश्चतुर्वेदः सर्वाशी सर्वविक्रयी ॥२१॥ न विद्यया केवलया तपसा वा पवित्रता। यत्र वृत्तमिमे चोभे तद्धि पात्रं प्रचक्षते ॥२२॥ यथा रथो विनाश्वैः स्यादश्वाश्च रथिना विना। एवं तपो ह्यविद्यस्य विद्या चाप्यतपस्विनः ॥२३॥ यथान्नं मधुसर्पिभ्या संयुक्त स्वादुतां व्रजेत् । एवं विद्यातपोयोगैर्ब्राह्मणः पात्रतां व्रजेत् ॥२४॥ द्विविधं तु समुद्दिष्ट गुह्यं ब्रह्म सनातनम् । स्थलसूक्ष्मं च बोद्धव्यं ब्राह्मणेन प्रयत्नतः ॥२५॥
SR No.032670
Book TitleSmruti Sandarbh Part 04
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages720
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy