SearchBrowseAboutContactDonate
Page Preview
Page 523
Loading...
Download File
Download File
Page Text
________________ २३२८ बृहद्योगियाज्ञवल्क्यस्मृतिः मार्जनस्य च जप्यस्य ब्रह्मणः परिचिन्तनात् । चतुर्णा चैव वेदानां साङ्गानां पारगो भवेत् ॥२०॥ स भवेत् सर्वविद्यानां पारगो नात्र संशयः ॥ ४ ॥ इति श्रीबृहद्योगियाज्ञवल्क्ये सूर्योपस्थाननिर्णयो नाम दशमोऽध्यायः || १०|| [ दशमो अथ एकादशोऽध्यायः योगधर्मवर्णनम् सवधर्मान् परित्यज्य योगधमं समाचरेत् । सर्वे धर्माः सदोषास्तु पुनरुत्पत्तिकारकाः ॥ १ ॥ नेहाभिक्रमनाशोऽस्ति प्रत्यवायो न विद्यते । स्वल्पमप्यस्य धर्मस्य त्रायते महतो भयात् ॥ २॥ यावानर्थ उदपाने सर्वतः संप्लुतोदके । तावान् सर्वेषु वेदेषु ब्राह्मणस्य विजानतः ॥ ३ ॥ आत्मज्ञानं हि यो वेत्तिस सर्वज्ञः स सर्वकृत् । एवं ज्ञात्वा प्रयत्नेन योगयुक्तः सदा भवेत् ॥ ४ ॥ अकृतान्येव यज्ञाश्च दानानि च तपांसि च । तेषां फलं तु संयोज्य लोकान् सोमानव (नु?) क्रमात् ॥५॥ भुक्त्वा गच्छति तत्स्थानं यद् गत्वा न निवर्तते । पुरुषो भुनक्ति भोगाननौपम्यान् गुणोदयान् ॥ ६ ॥
SR No.032670
Book TitleSmruti Sandarbh Part 04
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages720
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy