________________
॥३॥
अथ दशमोऽध्यायः
सूर्योपस्थानवर्णनम् माजनं प्राणसंरोधो ध्यानं च समुदाहृतम् । उपस्थानं प्रवक्ष्यामि सूर्यस्य क्रियते यथा ॥१॥ स्नामब्दैवतैर्मन्त्रैर्मार्जनं प्राणसंयमः । सूर्यस्या चाप्युपस्थानं गायत्र्याः पत्यहं जपः ॥२॥ उदुत्यं चित्रमित्याभ्यां प्रक्षिपेदुदकाञ्जलिः । गायत्र्यास्तु जपं कृत्वा पूर्वमेव यथाविधि उपस्थानं स्वकर्मन्त्रैरादित्यस्य तु कारयेत् । वक्ष्यमाणः प्रयत्नेन सूर्यस्य विषयाबुधः ॥४॥ उदुत्यं चित्रं देवानामुद्वयं तमसः परि । तक्षदेव इति च जपं कुर्यात्तु वै ऋचा ॥५॥ उदगादित्ययं मन्त्र आकृष्णेनेति वै ऋचा। इष्ट मनः प्रयुञ्जीत भक्त्या तानि जपेत् सदा ॥६॥ एतैर्मन्त्रैः प्रयुञ्जीत शक्त्याऽन्यानि जपेत् सदा । दश त्रिंशत् शतं वापि गायत्र्याः परिवर्तयेत् ॥७॥ अहोरात्रं कृतं ह्यनस्तत् सवं विप्रणश्यति । पूर्वी संध्यां जपंस्तिष्ठेन्नैशमेनो व्यपोहति ॥ पश्चिमां तु समासीनो मलं हन्ति दिवाकृतम् । जपिनां होमिनां चैव ध्यायिनां तीथसेविनाम् ।।६।।